SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्तमो ऊसासो २४६ प्रत्यक्षमपि स्वरूपम् । मद्यपा इव विवेक - विकला यत्र तत्र भ्रमन्ति अटन्ति, प्रपतन्ति, हसन्ति, रुदन्ति, प्रलपन्ति गायन्ति, म्लायन्ति पुनः पुन: । अहो ! सुखमिच्छूनामपि कथं सुखप्राप्तिः यावत् परवस्तुनि तेषां सुखगवेषणा, मार्गणा च । अस्ति अनन्त सुख स्वरूपः आत्मा । तत्र परवस्तुनः संगमः एव दुःखकारणं, भ्रान्तिकारणं, भ्रमणकारणं च । तस्मात् प्रथमं यथार्थ ज्ञानं कर्तव्यम् । ज्ञान-विहीना क्रियाऽपि अन्धबाण-परम्परेव न समीचीनं लक्ष्यं भेत्तु क्षमा । अहह ! आत्मारामे रममाणा मुनयः कीदृशमानन्दानुभवं कुर्वन्ति ! अनुकूल - प्रतिकूलेषु सुख-दुःखादिषु सम्यग् भावयन्तो वीतरागा न कुत्रापि विद्यन्ते, क्लिश्यन्ते, परितपन्ति, विमनसो दुर्मनसश्च भवन्ति । हन्दि ! मुनीनां सर्वतः उद्व ेलितः आनन्दसमुद्रः । समन्तात् प्रसृमरा शान्तिलहरी । भव्याः सकृदनुभवन्तु आत्मीयं सुखलवम् । लब्धास्वादाः यूयं न तत् परिहातु शक्ता: । खलु अनुभवगम्योऽयं मार्गः । साक्षात् अमृतपानमिव मधुरं मुनिकुञ्जराणां वचनं श्रुत्वा प्रफुल्लिता जाता परिपत्, उद्बुद्धं जातं मानसमतितराम् । देशनानन्तरं पृष्टो रत्नपालेन निज- पूर्वभव - वृत्तान्तः -- यथा किं मया एतादृशं दुष्कृतं कृतं येन षोडशवर्षपर्यन्तं पितृवियोगो, धननाशश्च जातः । ज्ञानबलेन मुनिना भणितम् - " अज्ञानवशंवदेन तव जीवन मातृ-प्रदत्तस्य सुपात्रदानस्य सक्रोधं गर्हा कृता, सुमुनयो निन्दिताः For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy