SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतमो ऊसासो २४७ किमवशिष्टं सम्प्रति त्वरितव्यं मया आत्महिते धर्मकायें प्रत्यहिताय, सुखाय, क्षेमाय च । एवं भावयन् श्रेष्ठी विरक्ति प्राप्तः, वैराग्यं लब्धः, भवबंधनं छेत्तु तत्परश्चजातः । भानुमत्याः पुरतः श्रष्ठिना निजा भावना रक्षिता । साऽपि इदं शुभं कृत्यं अनुमोदयन्ती पतिमनुगन्तु उत्सुका जाता। आपृच्छ्य पुत्रादि-परिजन जिनदत्तो धर्मघोषस्य आचार्यपादस्य समीपं सभार्यः प्रव्रज्यामुपगतः । विविधघोरतपोभिः शरीरं तापयन्तौ स्वाध्याय - ध्यानैरात्मानं भावयन्तौ अन्ते ससंलेखन मनशन माराध्य कल्पविमान-वासिनौ देवौ जातौ । अथान्यदा रत्नवती आपन्न - सत्वा जाता । प्रसूतं तया पुत्ररत्नम् । सुखं सुखेन परिवर्धितः सः । कारायितं विद्याध्ययनं यावत् कृतपाणिग्रहणो विनयी, विवेकी, सवकार्यकुशलो, गृहस्थाश्रमधुरन्धरश्च जातः । इतश्च समागता अमितगतिनामानो महातपस्विनश्चतुर्ज्ञानिनः आचार्य - वृषभाः । ज्ञात्वामुनीनामागमनं संतुष्टा जाता नगरी । निर्गता अनेके श्रेष्ठि-गाथापति-सेनापति राजानो वन्दितुं मुनीन्द्र-पादकमलम् । रत्नवती - सहितो रत्नपालोऽपि गतो मुनीन्द्र-दर्शनार्थम् । व्याकृता गुरुवरेण धर्म-देशना । ज्ञापिता मनुष्यभवस्य दुर्लभा प्राप्तिः । एतत् खलु द्वारं चतुर्गतिमयस्य संसार - दुर्गस्य । अत्र स्खलितैर्नरकनिगोदादिषु पतितैः संसार-चक्रवाले नटितैश्चतुरशीति-लक्ष- जीवयोनीनां कथमन्तः नेतव्यः ? हन्त ! सप्तति-कोटी-कोटी - सागरमिता मोहनीय कर्मणः स्थितिः । तेन मोहिता जीवा न परिलक्षन्ते For Private And Personal Use Only -
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy