________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२४५
निजं निजं गृहं प्रतिगताः । विनयेन, विवेकेन, चातुर्येण, दक्षतया च सर्वेऽपि परिजनाः गुरुजनाः मन्त्रमुग्धाः, सम्मोहिताः, कीलिताः, वशगाः इव च कृता अनया । पितरौ पुत्रस्य पुत्रवध्वाश्च मधुर व्यवहारेण सर्वकार्य नैपुण्येन च अवहृतभारी भारवाहौ इव जातौ । रत्नपालोऽपि रत्नवत्या सार्धं पञ्चेन्द्रियविषयसुखानि अनुभवन् यथासमयं धार्मिक व्यावहारिकं च कार्यमनुतिष्ठन् सुखं सुखेन कालं यापयति ।
अथैकदा पूर्वारात्रापररात्रकाले धर्मजागरणां जाग्रता जिनदत्तश्रेष्ठिना एतादृशी भावना भाविता - अहो णं' मया एकस्मिन्नपि भवे विचित्रा सुखदुःखपरम्परा दृष्टा, अनुभूता, कायेन स्पृष्टा च ; तथापि कथं न मे मनो विरक्तं जातम् ? न कथमिन्द्रय-विषय-पराङमुखता सम्प्राप्ता ? न कथं स्नेह शिथिलता जाता परिजनेषु ? न कथं धनादिषु मुक्तिभावना परिवर्धिता ? हा ! हा ! न पुनः प्रत्यावर्तन्ते व्यतिक्रान्ताः क्षणाः । न पुनरतिक्रान्तं यौवनं लावण्य, शरीरबलं च आवर्तते पश्चात् । अरे ! तुच्छजीवनहेतुकी ईदृशी चिन्ता ? कीदृशं धावनम् ? कियन्तश्छल कपट - प्रपञ्चाः ? किन मोक्तव्यं रङ्कवद् राज्ञाऽपि एतत् सर्वम् ? अत्र का विचिकित्सा ? सर्वसाधारणः कृतान्तस्य निश्चितो नियमः । न तस्य पुरतः कस्यापि सफल विनय प्रयोगो बल प्रयोगो वा । ततः कस्मादहं नात्मनो हितं चिन्तयामि, आचरामि न । अब्बो ! गतं आयुषो महार्घ्यं भागत्रिकम् ।
For Private And Personal Use Only