________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२४३ श्रश्रूश्वसुरयोः चरणेषु प्रणमिता। मुकुलित-पाणिपल्लवा वक्तु प्रवृत्ता-“अहमस्मि किल तत्रभवतां स्नुषा युष्माकं प्रियपुत्रस्य सहधर्मिणी रत्नवती नाम । विद्याबलेन राउलरूपे गुप्ता पत्या सह समागता । तस्माद् युष्मदीयाऽहं पुत्रवधूः नान्या" एवं कथयित्वा अत्तायाः (श्वश्र्वाः) चरणकमले सहर्ष निपतिता । इति ज्ञात्वा भानुमत्या जिनदत्तस्य च आश्चर्येण सहोत्कटः आनन्दो जातः । वध्वाः मस्तकं करेण स्पृशन्ती अत्ता (श्वश्रूः) कथयितु प्रवृत्ता"अहो ! एषा नृपदुहिता पुत्रवधूटी रत्नवती ? न लक्षिता अस्माभिः मनसाऽपि राउलरूप-गोपायिता । अबला भूत्वाऽपि दर्शितमनया असाधारणं पौरुषम् । अद्भुताऽस्या: समय-सूचकता। अनेककृत्वो ऽस्माभिश्चिन्तितं यदेष असंस्तुत: अप्राप्त-स्वजन-सम्बन्धोऽपि कथमस्मान् अतीव शुश्रूषते, परिचरति, अनन्यभक्तिभावेन पुनः संरक्षतीति । पुत्रवधु ! तव मतेः धृतेः कियत् प्रशंसनं कुर्मः यदस्माकं आनयने अनेकानि कष्टानि सोढानि, विपनिम्नगाश्च तीरिताः । एतादृशीं सेवाभिमुखां स्नुषां प्राप्य धन्याः जाता वयम् । एवं भणन्त्या तया रत्नवती पृष्ठभागे सस्नेहमाहता मस्तके च ओसिंघिता घ्राता) पुत्र-पौत्रवती भव इति शुभया आशिषा च वर्धापिता । यदा परिजने एषा प्रवृत्तिविस्तारं गता तदा सचोज्ज (साश्चर्यम्) सर्वेऽपि ते आगताः स्नुषां द्रष्टु सोत्साहम् । रत्नानुरूपां रत्नवती प्रक्ष्य सर्वेऽपि आनन्दिताः जाताः। श्रेष्ठिनोऽतीव सौभाग्यं प्रशंसन्तः स्वजनाः
For Private And Personal Use Only