________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः उच्छ्वासः
इतः किल अतीते काले अस्ति प्राकृत-सौन्दर्य-शोभितं बहुविधोद्यान-पर्वत-परिमण्डितं पुरिमतालपुरं नाम नगरम् । तत्र राज्य-धर्मनीति-सुनिपुणः, तस्कर-पारदारिक-पश्यतोहरादिषु क्रू रोऽपि परमसोमः, भुजबल-परिकम्पित-शत्र -निवहः, अनलसः सूरसेनो नाम नृपतिः। अनेके इभ्याः श्रेष्ठिनः, गाथापतयः अपरिभूत-विभवाः अमान-मत्सरिणः तत्र परिवसन्ति । तेषां मितव्ययानामपि धनं सुसम्प्रयोगे नदीस्रोत इव प्रवहति । मातरमिव प्रक्षते पर-युवतिजनं तेषां लज्जालु ईष्टि: । मनागपि गहितं कृत्वा झगिति प्रायश्चित्त प्रतिपत्तुकामा तेषां तत्व-परिपूता मतिः । श्वः परेद्य : वा कर्तव्यं सुवि
For Private And Personal Use Only