SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्तमो ऊसासो २३७ श्रुत्वा राउलस्य भणिति हित्थो ( लज्जितः ) जातो रत्नपालः । कथमेवं भणसि राउल ! यत्र मयैव गन्तव्यं तत्र तव सम्प्रेषणं लज्जापदम् । दत्तं मया श्वसुरस्य सम्मुखं वचनं यत् प्रत्यावलिष्ये शीघ्रमेव सहचरीं नेतुम् । वचनपालनमस्ति सत्पुरुषाणां कर्तव्यम् । पुनर्यस्या: करो गृहीतः, या मे अर्धाङ्गिनी जाता, अहमेव यस्याः एकाधारः, तस्याः हेतोः मे तत्र गमनं समुचितम् । पितरौ विज्ञप्य शीघ्रातिशीघ्र गन्तुकामोऽस्मि अहम् | नास्त्यन्यो विकल्पः । इति पतिदेवस्य कर्तव्य पालन-तत्परतां परिलक्ष्य अतीवानन्दिता जाता राउलरूपा रत्नवती । सम्प्रत्यहमपि मूलरूपा भवामीति निश्चितं तथा । तत्क्षणं प्रविष्टा मज्जनगृहे । उत्तारितो राउल-वेषः । सार्धमुद्वर्तनेन विशुद्धनीरेण स्नाता । कृतो जटिलप्रदत्ताया जटिकायाः प्रयोगः । विलुप्तं नरत्वम् । प्रकटितः प्रकृतिजो नारीभावः । उद्घाटितं पेटकम् | परिहितानि चीनांशुकवस्त्राणि । धारितानि महार्घ्यारिण अलङ्काराणि । एवं सज्ज-षोडश-शृङ्गारा साक्षात् मनुजरूपा देवी इव संभूता, अभ्रपटलाच्चन्द्रलेखेव स्नानगृहात् एकपदे गृहचत्वरे प्रादुर्भूता सा। आसीत् तस्मिन् समये रत्नपालः चन्द्रशालायाम् । कलहंसीव चरण विन्यासं कुर्वती सोपानमार्गेण झटिति तत्रावतीर्णा । स्मेराननपद्मा प्रकटा पद्मावतीव सा यदा रत्नस्य नयनपथमागता, तदा " For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy