________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२३५ ___ अतुच्छं बुद्धिकौशलमवगत्य सर्वेऽपि विस्मय-स्मेराननाः जाताः । अव्वो ! धन्योऽयं राउलः कीदृशो दक्षः ! एककार्ये अनेक-कार्य-साधकः । कथं विप्रतारितं धनं पुनर्हस्तगतं कृतम् । सर्वेषां मुखकमलेषु राउलस्य जय-सौरभं प्रसृतम् । प्रवृद्धधनेषु अतीव धनवृद्धिर्जाता पुनः। अत्यानन्देन क्षणा: इव दिवसाः अतिक्रमन्ति एतेषाम् ।
एकदा रत्नपालेन राउलं प्रति सखेदं कथितम् - "राउल ! निपतितोऽस्मि चिन्तासागरे, यतो गन्तव्यमवश्यमस्ति मया श्वसुरालये समिणीमानेतुम्, परन्तु चिरविरहपीडितो मे माता पितरौ क्षणमपि नयन-वर्तनीतो न मां दूरयितुमिच्छतः । दुग्धदग्धाः यथा तक्रमपि सफुत्कारं पिबन्ति, तथा मे चिरविरहाग्नि-संधुक्षितौ दूरगमनाक्षरमपि न तो सोढ़ शक्तौ । 'सम्प्रति किं कर्त्तव्यं मया' इति न ज्ञायते दुवि धागतेन मानसेन ।"
स्मेराननेनाऽपि गभीरीभवता राउलेण प्रादुष्कृतम्-"न स्मर्यते कि अनुभविनः श्वसुरस्य शिक्षा त्वया ? यथा-अस्ति लम्बः प्रवासः, दुर्लभं पुनरागमनम्, सार्धमेव नेतव्या सर्मिणी, न त्यक्तव्या एकाकिनी अत्र । परं न युष्माभिरादेयवचनस्य गौरवं लक्षितं, ज्ञातं, चिन्तितं पुनः । सम्प्रति चिन्तया किं सम्पद्यते ? भार्यानयनमावश्यक विद्यते, यदि कथयति भवांस्तदाऽहं गच्छाम्येकाकी तां नेतुम् । कोऽस्ति अन्यः उपायः?
For Private And Personal Use Only