SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ छट्ठो ऊसासो गमन-स्वरा ? स्तोकानि दिनानि व्यतिक्रान्तानि इहागतस्य भवतः । निस्संगमानसानां का सङ्ग-दोष-शङ्का ? पुनन्त्यात्मानं तव संगमेन अस्मादृशाः पापाः मन्दा अपि । तस्माद् जङ्गम-तीर्थानि मुनयः । का मार्गणा शकटानाम्, यावन्ति युज्यन्ते तावन्ति गृह्णन्तु किल । किमत्रदान-गौरवम् ? अन्यत् किमपि गृहीतव्यं महाप्रसादेन भदन्तेन, परन्तु न साम्प्रतिकं गमनं भविष्यति। इच्छा-प्रधानाः मुनयो हु (निश्चये) नाग्रहप्रधानाः । पवनस्य कि गमनमागमनं च । अस्मदीयोपदेश-प्रतिपालनमेव अस्माकं दर्शनम् । यथाकालं पश्चादपि आगमनं किं न संभावनीयम् ? एवं कथयित्वा तत्क्षणं राउलो नृपमाशिषा तोषयन् ततश्चलितः । तृपेणानेकानि शकटानि जात्य-वृषभ-युक्तानि उपदीकृतानि । नृप-समीपाद् गृहीत्वा तानि चन्दनराशि-ससीममागतः । भरितं हरिचन्दनं तेषु । पुरात् किञ्चिद् दूरं भरित-शकटानां श्रेणिः स्थापिता पुरिमतालपुर-पथे। एवं सर्व कार्य यथास्थितं कृत्वा जिनदत्त-भानुमती-समीपमागम्य भणितम्- “गम्यते मयाद्य पुरिमतालं भोः । बहुदिनानि अतीतानि अत्र । का समीहा भवतां ननु ?" पृष्टं मार्गप्रस्थितेन इव राउलेन । यस्मिन् वासरे आणिता तव मुखेन पुत्रस्य मंगल-प्रवृत्तिस्ततः प्रभृति जागरिता अक्षमा उत्कण्ठा पुत्र-दर्शनार्थम् । न रतिं लभावहे क्षणमपि कुत्रापि । प्रतिपलं प्रतीक्षावहे त्वां सङ्गोपितभण्डोपकरणौ For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy