SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो २१९ उद्विग्नो धनदत्तः। हा ! विचित्रा किल कपट-कलायाः परिणतिः ! तस्माद् 'माया भयम्' इति सत्यमुद्देष्ट नीतिविदुरैः । नक्तविरामे प्रच्छन्नं सम्प्राप्तस्तत्र राउलः । परितो भ्रमन् पृष्टतः परिष्ठापितं चन्दनराशि विलोक्य हृष्टस्तुष्टो जातः । अहो ! फलवती जाता मे संचालिता निकृतिः । कण्टकः कण्टकेन निःसृतः । पापेन प्राप्तं निजमुचितं प्रतिफलम् ! धनमुद्रा तत्क्षणं संगोपिता तेन समयज्ञन । पश्चात् नृपसमीपमवसरं प्राप्य गतः । सम्मानितो लब्धासन: 'किं युज्यते' इति यदा नृपेण साग्रहं पृष्टस्तदा तेन कथितम्-'नरेन्द्र ! इच्छाम्यहं इतः प्रत्यावलितुम् । न सङ कुले पुरे मुनीनां मनो लगति । भावावेशेन गृहिणो मुनिजनानपि आकर्षन्ति गृह-प्रपञ्चेषु । संसर्गत्यागः परमावश्यकः मुनीन्द्रचन्द्राणाम् । यथा गृहिणो मुनिसंसर्गेण लब्ध-वैराग्या जायन्ते, तथैव मुनयोऽतीव गृहि-संस्तवेन शिथिल-संयमाः भवन्ति । तस्माद् विविक्तगहनवने मुनिनिर्वासार्हो मठः संस्थापितव्यः इति मया निश्चितम् । दानशीलै गरैस्तद्योग्यानि विशिष्टकाष्टानि समर्पितानि, तानि राशीभूतानि तिष्ठन्ति । तस्माद् शकटानि युज्यन्ते तानि नेतु यथास्थानम् । अन्ये नागराः शकटानि दातुमतीवाग्रहं कुर्वन्ति, परन्तु वाचा-बद्धेन मया नृपः एव याचितव्यः इति चिन्तयित्वा अत्रागतोऽस्मि ।" निर्गमन-तत्परं ज्ञात्वा राउलं भूपति: खिन्नो जातः । मम परमोपकारी व्रजतीति न रुचितं, कथितं च- "योगीश्वर ! कैतादृशी For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy