SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१७ छट्ठो ऊसासो प्रकटयितु शक्यम् । भृशं अधृति वहन श्रेष्ठी तत्क्षणं ततश्चलितो जायया सार्धम् । नाना-संकल्प-विकल्पपरो धावन् गृहे प्रविष्टः । दृढमुकुलीकृत-द्वारया तया अतृतीयवेद्य राउल-कथितं यथातथं सूचितम् । पतिदेव ! कथं नृपमागितं तं चन्दनं विद्यमानमपि स्वयं अर्पणीयं कथं नार्पितम् ? 'अतिलोभः सर्वत्र वर्जनीयः' इति सत्योक्तिः । निशम्य गृहिणी-मुखेन राउल-पिशुनितं अत्यर्थमुत्रस्तो जातो लुब्धः । गोसर्गे (प्रभाते) यदि नृपसत्काः दण्डपाशिकाः पुरुषाः आगम्य गृह-गवेषणां करिष्यन्ति, अतुच्छं चन्दन-भाण्डागारं च प्रेक्षिष्यन्ते, तदा मे का दुर्दशा भविष्यति ? हद्धी ! अत्यन्त-गृद्धया सर्व विध्वंसितम् । हा । हा ! मुधा वञ्चितो मया भद्रो वराको जिनदत्तः । मुधा गृहीतं मुधा गमिष्यति मम सर्वस्वेन समं सर्वं संगृहीतं चन्दनम् । अव्वो ! अल्पः समयः किं करणीयं मयाऽधुना ? अन्ते भीतौ दम्पती निजकरैः सर्वं महामूल्यं मलयजं रात्री गृहस्य पृष्टतः एकान्त-स्थाने गहित वस्तुवत् परिष्ठापितम् । नैकमपि खण्डं चण्डभय-खण्डित-मानसेन रक्षितं निजगृहे । पूर्व त विक्रीय यजिता धनमुद्रा साऽपि भयग्रस्तेन तत्र व क्षिप्ता तेन । चन्दनसंग्रहस्थानं गर्भगृहमपि गोमयेन लिप्तं, यथा तत्र न श्रीखण्ड-सौरभं प्रसरति सूक्ष्ममपि । पुनः पश्चिमरजन्यां निगडित-गृहद्वारः सदारो निस्फिटितो (निर्गतो) नगरादपि For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy