SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो २१५ आगतोऽस्मि अहम् । अधुना किमनुष्ठातव्यमिति विमर्शनीयं किञ्चित् । इत्थं कथयित्वा राउलस्ततः पलायितः । एवमेव राउलेन भीषिता सा त्रस्ता किंकर्तव्यमूढा संमूढमानसा अतुच्छं आयल्लं (चित्तोडे गं) वेदयितु प्रवृत्ता -हा ! किमिदं जातम् ? कुपितो नरनाथः किमभद्र करिष्यति ? हरे ! प्रचुरो हरिचन्दनराशिः विद्यतेऽस्माकं गृहे । कथं न दत्तं नृपार्थं गवेषितमपि महालुब्धेन मम पत्या ? सम्प्रति किं भविष्यति ? क्षणमपि गृहे स्थातुमशक्ता तत्क्षणं धावन्ती विसंस्थुल-वस्त्राभरणा एकाकिनी पतिसमीपं आपणे आगताः । अकाण्डमागतां विवर्णमुखीं भार्यां विलोक्य धूर्तो धनदत्तः खेद-विस्मय-मिश्रं चिन्तयितुमारब्धः-"कथमनतिक्रान्तदेहलिदेशा एषा पण्यवीथ्यामेकाकिनी समवतीर्णा ? किमप्यरिष्टं दृश्यतेऽन्यथा कथमेवं भवति ?" एवं तर्कयता दयितेन ससंभ्रमं पृष्टम्-‘दयिते ! कथं स्वयं इहागता ? सन्त्यनेके किंकराः भृत्यास्तव पुरतः, कथं न ते प्रस्थापिता अद्य मे समीपम् ? कथं हिमानी-हतं मृणालपत्रमिव प्रतिभासते ते मुख-पद्मम् ? का अमङ्गला मङ गुला (अनिष्टा) प्रवृत्तिस्ते कर्णातिथीभूता?' दीर्घनिःश्वासं मुञ्चन्त्या तया त्रुटितस्वरमतिशनैः पतिमेकतः कृत्वा कथितम्-"शीघ्र गृहं व्रजन्तु आर्यपुत्राः, नृत्यति काऽपि विपद्घनाघनघटा अस्माकं शिरसि । अस्ति परैरलक्षणीयं किमपि गुह्य नात्र For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy