________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
२११ आशा। अकिञ्चनत्वमेव धनम् । अहो ! याचनाशीलोऽपि योगी किं याचते जगति ? भिक्षया सुलभमन्न पुन: पानीयम् । धरणितलं येषां स्थानम् । वृक्षमूलं किल प्रतिनिर्मितं हर्म्यम् । सर्वेऽपि लोकाः परिजनाः । उपवासाः येषां अगदङ्काराः । भूनाथ ! बहु प्राप्तं भवति अल्पत्यागेन । एकमाशाजालं छिन्दन् योगो त्रैलोक्य-समृद्धि हस्तयति, न किम् एष अतिलाभो व्यापारः ? तथापि अस्ति भक्तिपूर्णा प्रार्थना, तस्माद् रक्षामि नृपस्य (भवतः) वचनं भाण्डागारे । आपतिते कार्ये किमपि मार्गयिष्ये” इति जल्पन राउलस्ततः उत्थितः । अस्य निस्पृहवृत्ति प्रेक्ष्य सर्वेऽपि विस्मय-स्मेराननाः संजाताः । समग्रपुरेऽद्भुता एषा कथा विस्तृता। विचित्रशक्तिवानयं राउलः । क्षणेन गमिताऽ नेन नृपस्य तीव्रा वेदना । अधुना सर्व-विदित-माहात्म्यो जातोऽयम् ।
एकदा सन्ध्याकाले एकाकी राउलो धनदत्तस्य गृहस्य अग्रतः आगम्य शनैर्वीणां वादयितुमारब्धः । दिनावसान-समये आकर्ण्य वीणास्वरं, प्रेक्ष्याग्रतः स्थितं राउलं धनदत्तस्य भार्या भयभीता जाता। वेपनशीला सा तत्कालं बहिरागता कथयितु प्रवृत्ता"राउल ! कथं विकालवेलायामत्र समागता यूयम् ? यद् युज्यते तच्छीघ्र गृहीत्वा इतोऽन्यत्र जितव्यम् । यतो भदन्ताः नृपगृहसम्मानिताः पूजिताः सन्ति, अहमेकाकिनी अबला स्त्री सम्प्रति । न भवतः स्थितिः शोभनत्वमञ्चति किञ्चिदपि । तस्माद् यदा अस्य बालकस्य
For Private And Personal Use Only