SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठी ऊसासो २०६ I 1 I भणता राउलेन तत्क्षणं प्रवेशितं निजं हस्तं भोलिकायाः मध्ये । निमीलितनयनयुगलं उच्चैः कथितम्, यथा- "आगच्छतु हरिचन्दनम् । शीघ्रमागच्छतु हरिचन्दनम् । अस्ति प्रभोराज्ञा, अस्ति गुरोराज्ञा, अस्ति राउलयोगिनः पुनराज्ञा " तत्कालमायातु अमरचन्दनमिति भणतो राउलस्य भोलिका तो गोशीर्ष - शकलं हस्त- गृहीतं बहिरागतम् । नृप-प्रभृतयो विस्मयं गताः । " अब्वो ! ( आश्चर्ये ) अचिन्तनीया योगिनः शक्तिः । कुतः आगतं अकस्माद्धरिचन्दनं भोलिकायाम् । नूनं मे दाघज्वरः सत्वरं गत्वरो भविष्यति । " घृष्टं निजहस्ताभ्यां राउलेन चन्दनम् । कानि मन्त्राक्षराणि उच्चारयता लिप्तं तद्नृपस्य गात्र े । जातमात्र लेपे तत्क्षणमनपमा शीतलता प्रसृता । विगतदाहः संजातो नरनाथः । मन्ये नवजीवनं प्राप्तं तेन । नृपो राउलस्य चरणयोनिपतितः, कृतज्ञतया विज्ञप्तं च - "हन्त ! निष्कारणमुपकारिणः ईदृशा भवन्ति मुनयः । अस्ति अद्यापि मुनि कुञ्जरेषु वर्णनातीता शक्तिः । तस्माल्लोकाः सभक्ति पूजयन्ति सत्कारयन्ति, सम्मानयन्ति च साधु-पुङ्गवान् । निस्पृह ! केन प्रत्युपकारेण लाघवं नयामि आत्मानम् ? सत्यमिदं यन्नयुज्यते किमपि लोकोत्तर- चरितानां लोके, तथापि मयि प्रसादं कृत्वा किमपि अङ्गीकरणीयम् । परमार्थतो महात्मसु दानं क्षेत्र ष्विव अतुच्छमादानम् । मुनिपुङ्गवेभ्यो ददतो दातारः प्रत्युत अनुगृहीताः स्यु । तस्माद् किञ्चित् ग्रहण- प्रसादः कर्त्तव्यः कारुण्य- पुण्येन भदन्तेन । " } 1 1 नृपस्य विनयोपरि ध्यानमददतेव राउलेनोपदेश- सरस्वत्या उक्तम् - "भूमीन्द्र ! किं युज्यते मुनीन्द्रचन्द्र ेभ्यः ? येषां निराशैव १ उपदेश सरस्वत्या - उपदेशमय्या वाण्या इत्यर्थः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy