________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठी ऊसासो
"प्रभुः प्रभवति सर्वं भव्यं कर्तुम् । यस्य स्मरणेनाभ्यन्तरिका गदा अपि विगता भवेयुः तत्र बहिरामयानां का कलना ? नूनं भवति मनुजो रोगी अज्ञानेन निर्जन । प्राकृत नियमानां खण्डनमेव आमानामामन्त्रणम् । परमार्थतः इन्द्रियाणामासक्तिः किल नानारोगाणां जननी । यदि सा निवृति प्राप्ता स्वयं जायते आरोग्य - सम्पद् ।" एवं सूचयता राउलेन नरदेवस्य धमनी विलोकिता । कृतं निदानम् । विचिन्तितं किञ्चित् । " ईषत्करमेतत् सुकृतनिदानस्य वेद्यवरस्य । केवलं गोशीर्ष - चन्दनं युज्यते यदि प्राप्यते, तेन तत्क्षणं रोगोपशमनं भवेत् इति मे कल्पना ।" सोल्लासं कथितं योगिना ।
२०७
शीघ्रमेव किङ्करास्तद् गवेषितुं गता नगरे । चन्दन- व्यवहारिणः सर्वेऽपि पृष्टाः परं न कुत्रापि प्राप्तं एकमपि शकलं अमरचन्दनस्य । उदासीन - मुखाः सर्वेऽपि गवेषकाः पुनरागताः । "न गोशीर्षं अत्र कोऽपि जानाति, उपलक्षयते, रक्षति च । अन्यत् साधारणं चन्दनं यदि युज्यते तदा सुलभं विद्यते" कथितं तेः । हताशी जातो नृपः । " अरे ! न मिलितममरचन्दनमत्र हा हा ! अनुल्लंघनीया भवि ! तव्यता । योगिवर ! सम्प्रति त्वमेव शरणं मे ।"
“किमस्ति एतादृशं वस्तु यन मिलति प्रभोः महाराज्ये ? मनुजस्यायोग्यतैव मनुजं असाफल्यं निदर्शयेत् । किं नगरे न मिलितं हरिचन्दनम् । अव मिलति, अधुनैव मिलति इहैव मिलति " एवं
For Private And Personal Use Only