SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासा २०५ तया निस्पृहतया बहु गौरवं प्राप्तः स जनानां मनस्सु । केवलं निजहस्त-निर्मित-सात्विक भोजनेन तृप्तो यत्र तत्र एकान्ते रात्रौ स्वपन् स दक्षतया धूर्त धनदत्तस्य गृहेण परिचितो जातः । इतो विधिवशतो नृपस्याङ्ग दाघज्वरः समुत्पन्नः। कृताः सर्वेऽपि उपायाः निष्फलाः गताः । वेदनया पीडितो नृपोऽतीवासातमनुभवति । तदा केनाऽपि श्रद्धिना पुरुषेण नृपाय भणितम्-“कस्माद् यूयं एतादृशीं वेदनामनुभवथ । अत्र को यन्त्र-मन्त्र-तन्त्रौषध-विशारदो राउलो योगी समागतोऽस्ति । तस्याशिषा देवस्य गदो गतो भविष्यति, न शङ्का । तस्मादामन्त्रितव्यः स इह । अवश्यं कृपालुहृदयः स कृपां करिष्यति ।" दुःखितेन नरपतिना तत्क्षणं सचिव-सकाशात् ससम्मानं दर्शनं दातुं प्रार्थितः स राजमन्दिरे । 'का नाम हानिः? दास्याम्यहं दर्शनं नृपाय। प्रभु-कृपया सर्वं भव्यं भवेत् ।' एवं कथयन् तत्क्षणं ततः उत्थितः । जनैः परिवारितो निजलये रममाणः, अधर-पुटाभ्यां उपांशुजापं च कुर्वन् राज-प्रासादं प्राप्तः । नृपेण विनय-प्रणामः कृतः, दत्तं चासनम् । "कृतार्थोऽस्मि अद्य तव दर्शनेन योगीश्वर ! अनुभवामि तीवं दाघज्वरम् । सर्वेऽपि अगदंकाराः हारिताः औषधं कुर्वन्तः, सम्प्रति तव शरणं गृहीतम् । करोतु अनुग्रहम् ।" For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy