________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो घन-सिक्ता परिवर्षिता प्रफुल्ला आशावल्ली। स चैव सौम्यो जिनदत्तः श्वसुरः, सा च अत्ता (श्वश्रूः) मे भद्र स्वभावा भानुमती । धन्या अद्याऽहं तेषां चिरदुर्लभं दर्शनं करिष्यामि । प्रियपुत्रस्य अलब्धपूर्वसुखसमाचारेण तेषां मानसं तोषयिष्यामि । अहा ! कीदृशो भविष्यति स आनन्दमयः समयः ? एवं विकल्पयन् आगतः पुरपरिसरे राउलः । दृष्टिपथमापतितं तदृटजम् । काष्ठ-भारं नेतु गतो वने जिनदत्तः । कार्यलग्न-हस्ता उटजमध्ये स्थिता भानुमती । तत्क्षणं तत्र समवतीर्णः प्रसन्नमनाः वीणाहस्तः सः। उटजस्याभिमुखं दृष्टा तेन समतला गोमय-लिप्ता पवित्रा वेदिका । परितः प्राकृतं प्रसन्न वातावरणम् । तत्र वेदिकायां वीणावादन-तत्परो निमीलिताक्षिः अजानन्निव आसितो राउलः । श्रुत्वा श्रवणामृतां मधुरस्वरां वीणां कोऽत्र गायतीति तर्कणपरा भूता भानुमती। ईषद ग्रीवां लम्बायमानया बहिः प्रेक्षितं तया। भक्तिरस-निर्भरं गायन् वीणया समं दृष्टस्तया एको बालयोगी। अहो ! धन्यमस्मदीयं दिव्यं दिवसमद्यतनम्, यत् अनाहूतः अचिन्तितः एष बालमुनिः अज्ञातं दर्शनं दातुं कृत-पदार्पणः । नूनमद्य किमपि महाभव्यं संभाव्यते । पूर्णानां तुच्छानां चोपरि येषां समा म तिः तेषां मनसि कुत्र गन्तव्यं, कुत्र न गन्तव्य, कुत्र स्थातव्यं, कुत्र न स्थातव्यं, नेतादृशाः विकल्पाः संभवन्ति, तस्माद् उपनिमन्त्रयामि माधुकरिकार्थ बालमुनिमिमम् । इति विचिन्त्य किमपि भोजनार्ह द्रव्यं सप्रेम दातुमपराउलं उपनता सा । कृतो विनयप्रणामः । महती
For Private And Personal Use Only