________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छट्ठो ऊसासो
१८६ योगीश्वरं जनता सम्मोहिता भवति, सत्कारयति, सम्मानयति, अनेकवस्तुभिः पुनरुपनिमन्त्रयति परं निष्पिपासो राउलो न किमपि गृह्णाति, केवलं भिक्षाचर्यया समितादिकं द्रव्यं गृहीत्वा निजहस्ताभ्यां पाकं कृत्वा एकवारं भङ क्ते । पश्चाद् लब्ध-परिचयैस्तत्रगतजनैजिनदत्तस्य स्थितिम् आगमन-गमनादिकं गवेषयति। अप्राप्तवृत्तान्तः एकपदे ततो निष्फिटति । तत्र स्थातुबनुरुद्धोऽपि नागरैः 'अलमल निवासेनेति कथयन् अध्वनीनो भवति । एवं प्रलम्बा वर्तनी उल्लंघिता तेन । अनेकानि नगराणि मागितानि । वनानि तदृष्ट्या दृष्टानि । नाना मठा: आश्रमाः प्रान्तग्रामाः गवेषिताः। परं न जिनदत्तस्य नामाप्याकणितम् । न कापि प्रवृत्तिरपि प्राप्ता । सूक्ष्मः संकेतोऽपि न लब्धः । तथापि अखेदवान् राउलो दक्षिणस्यां दिशि परिवर्धते । लक्ष्यकदृष्टि: कियदिदमिति मन्यमानः सवेगं अग्रतः सरति । उद्यमवतां किमलभ्यं, किमशक्यं, किं दूरं वा-ये असाफल्यं जानन्ति साफल्यस्य उपादानम् । चलनानामुपरि चलन्ति यत्र चलनाः तत्र किं दूरं गम्यपदम् ? क्रमशोऽनेकदिवसः प्राप्तं राउलेन जिनदत्तसनाथं वसन्तपुरं नाम नगरम् । मार्ग-संगतस्तत्रगतजनैः पूर्वमेव जिनदत्तनामा कोऽपि वृद्धः काष्ठ-हारकः सभार्यः पुरस्य बहिरेकस्मिन् उटजे निवसतीति ज्ञातम् । श्रुत्वा स्वश्वसुरस्य चिरचिन्तितं कर्णप्रियं नामधेयं हर्षवशोभिन्नरोमाञ्चः संजातो राउलः । मनोरथ
For Private And Personal Use Only