SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो १८७ स्वप्नेऽपि अकल्पितं किमेतत् जातम् । हन्त ! बालस्याप्यस्य कीदृशं लोकोत्तमं सौजन्यम् ? कीदृशी अद्भुता निर्भयता ? कीदृशं बुद्धिचापल्यम् ? कीदृशी परोपकार-निष्ठा ? अहो ! अनन्यः उत्साहः। अनीदृशं महात्म्यम् ! मधुरः स्वभावः ! नित्यं हसितं च वदनारविन्दम् । अहो ! कस्य इमा प्रसूतिः ? मन्ये महाकुलीनोऽसौ बालमुनिः। धिग् ! धिग् ! माम्, एतादृशः सुखोचितः सुकुमार-शरीरो मम कारणं प्रतिग्राम भ्रमिष्यति, यथा प्राप्तं भोक्ष्यते, यत्र कुत्र विश्राम्यन् स्थानं ग्रहीष्यति, आत्तान्वेषणव्रतः तन्मना: तल्लेश्यः तत्परश्च अनेकानि कष्टानि क्षमिष्यते । अज्ञानिभिरवधीरितोऽपि समभावभावितो भविष्यति पुनः । एवं बहुविकल्पयन् शोचयन् गुम्मइयहृदयः (संमूढहृदयः) च रत्नपालो गृहमागतः। प्रतिकार्य, प्रतिभोजनं, प्रतिपलं च राउलं स्मरन् एकैकं दिनं अंगुलि-पर्वसु गणयन् यथा कथंचित् कालक्षेपं करोति। __इतः पथि सत्वरगत्या उपसर्पन ये केऽपि मध्येमार्ग ग्रामाः नगराणि खेट-कर्वटानि आगच्छेयुः, तत्र सूक्ष्मेक्षणिकया अन्वेषणां कुर्वन् पृच्छति, तर्कयति, नामकीर्तनं करोति, संकेलं च ज्ञापयति ! अमीलिते संकेते अग्रतो व्रजति । अनलसः स न कुत्रापि समयं मुधा गमयति, विश्राम्यति, निश्चिन्तं च स्वपिति । एकान्तमनुपलक्षितेषु ग्राम-नगरादिष्वपि वीणा-नादेन कर्णामृत-मधुर-वैराग्यमय-गीतगानेन जनसमूहमाकर्षति । बाल्यावस्थमद्भुतरूपसम्पदं तं विलोक्य For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy