SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासा १७७ ___ तत्क्षणं जाता यथोचिता व्यवस्था। दायकैर्यथाह गृहोतं ग्राहकैश्च दत्तं । सर्वाणि परहस्तगतानि क्षेत्र-वस्तु-विपणि-प्रासादादीनि आत्मवशानि संजातानि । नगर्यामस्य कीति-कौमुदी प्रस्तृता । अहो ! बालोऽपि रत्नपाल कीदृशो बुद्धिमानस्ति येन सर्वमपि अव्यवस्थितं कार्य सुस्थितं कृतम् । राउलेनाऽपि सर्वा तत्रगता स्थितिः सम्यग् ज्ञाता। अग्रे किं करणीयमिति अनुवेलं चिन्तयति सः । परन्तु रत्नेन राउलरूपान्तरिता रत्नवतीति न शङ्कितं कदापि, केवलं बालयोगी नूनमेष' इति निःशङ्कज्ञातमनेन । सर्वसुखसमर्पितोऽपि रत्नपालो न क्षणमपि रति लभते पितृविरह-दुर्बलः । कथं तेषामनुसंधानं कर्त्तव्यम् ? कुत्र ते प्रोषिताः पुत्रविरह-विनटिताः उदासीनाः सन्तो जीवनं यापयन्ति । कथमेकाकी अहं गच्छामि प्रवासम् ? मां विना कथमेकाकी राउलोऽनुपलक्षित-प्रदेशे स्थास्यति । अतर्कितः आगतस्तत्र एकोऽष्टाङ्गनिमित्तविज्ञो ज्योतिषिकः । पृष्टः एष सविनयं रत्नेन-"विद्वद्वर ! कथमहं प्रत्यलो भवामि पितृपादस्य प्रवृत्ति ज्ञातुम् ? कस्यां दिशि तेषां निवासः इति कथं प्रत्येयं मया ? कृपया ज्ञानबलेन ककुप्-सूचनं कर्त्तव्यम्, यथाऽहं तेषामनुसंधाने सफलो भवेयम् ।" गणकेन झटिति गणितं, फलितं च प्रेक्षमाणेन उत्पिञ्जलचेतनो रत्नपालः कथितः-"दक्षिणदिग्भागे कुशलिनस्ते जननीजनका निस्संदेहम् । षण्मासाभ्यन्तरे सुलभं तेषां दर्शनम् । कुमार ! व्यतीता आपद्-दिवसाः सम्प्रति सर्व सुखं सुखमिति निश्चितं मे वचनम् । एवं कथयन् दानेन तोषितो गतः स निजं स्थानम् । १ निरन्तरम् २ विद्वद्वर ! ३ समर्थः ४ उत्पिञ्जलचेतनः व्याकुलचेताः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy