SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो १७५ प्रवृत्तिः । सम्प्रति त्वं पूर्व अत्रगतं विसंस्थुलं कार्य सुस्थितं कुरु, यथा तव पितुर्नाम समुज्ज्वलं भवतीति सूचितं बन्धुवर्गेण । प्रतिश्रुतं तत्कथनं रत्नेन । जातं सर्वबन्धुजनैः सहचरैश्च सार्धं प्रीतिभोजनम् । अनेके जिनदत्तसत्का भृत्याः कर्मकराः आपण-प्रमुखाः सखायः संभूय समागताः । निजं निजं प्रत्यभिज्ञानं कारयितु प्रवृत्ताः"श्रेष्ठिकुमार ! नष्टे महापादपे कुलाय-संस्थितानां शकुन-पोतानां यादृशी गतिस्तादृशी जिनदत्त-श्रेष्ठिशरण-विहीनानां अस्मदीया स्थितिवर्तते । सम्प्रति आशास्महे त्वं पितृवद् अस्माकं शरणदाता भविष्यसीति रत्नपालेनाऽपि सर्वेषां प्रार्थना श्रुता, ज्ञाता, यथार्हकार्यसमर्पणेन ते सन्तोषिता, पोषिताश्च । केऽपि परिणत-वयसो ‘मया कि पूर्व करणीयम्' इति पृष्टाः तत्कथनमनुवर्तमानेन सम्मानिताश्च । अत्रान्तरे नगरप्रमुखैः सार्धं रत्नपालेन प्राभृतीकृतो नरपतिः विज्ञप्तः पुन:-"नरदेव ! येषां केषामपि मनुजानां अस्ति जिनदत्तश्रेष्ठिनि अवशिष्टमृणं ते सर्वेऽपि मत्त: सवृद्धिकं निजं निजं धनं सत्वरं गृह्णन्तु, तथैव ये अधमर्णाः श्रेष्ठिनस्ते सर्वेऽपि सत्वरं प्रत्यर्पयन्तु मह्य यथार्ह धनम् ।” राज्ञा तदानीमेव-“दायका गृह्णन्तु, ग्राहकाश्च प्रत्यर्पयन्तु जिनदत्तथैष्ठिसम्बन्धिकं द्रविणमिति" उद्घोषणा कारिता नगरे । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy