________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३
छट्ठो ऊसासो जिगमिषामि निजं गृहमिदानीमेव । एवं कथयित्वा उत्थितो रत्नपालो मन्मनं सविनयं प्रणम्य कृताञ्जलिर्वक्तुमारब्धः-"श्रेष्ठिप्रवर ! इच्छामि युष्माभिरभ्यनुज्ञातो निजं भवनं वजितुम् । षोडशवर्षपर्यन्तमहमत्र वृद्धि प्राप्तः, पुत्रवत् लालितः, शिक्षितश्च प्रवासे प्रस्थापितः । स्मरिष्याम्यहं अनुत्तरमुपकारं भवताम् । आपतिते कस्मिन्नपि कार्ये उपस्थितो भविष्यामि अनालसमत्र । सम्प्रति जनक-भवनं गन्तु समुत्सुकं मां अनुजानन्तु कृपया श्रेष्ठिवराः।"
'निरर्थका परवस्तुनो लालसा' इति विदुरेण अन्तर्दू नेनाऽपि व्यवहार-कुशलेन-“सानन्दं व्रज वत्स ! निजं भवनम्, वर्धमानविच्छड्डेन (वर्धमान-वैभवेन) वधितो भव पुनः" इति ब्रुवता मन्मनेन रत्नपालो गन्तुमनुज्ञातः ।
षोडश-वर्षानन्तरं बन्धुजनैः परिवारितो मङ्गलशब्दैः गिधैश्च वर्धापितो हाभिमुखं प्राप्तः पुत्रः । लब्ध-वर्धापनिका विकसितमुखी सयज्झा (प्रातिवेश्मिकी) तत्कालं तत्र समागता । समर्पिता बद्धमन्दिरतालकस्य तालिका। उद्घाटितं कपाटयुगलम् । कुत्र-कुत्र पितृपादस्य आसिका शायिका आसीदिति परिजनैः प्रवेदिता । तरुणा जाता तेषां तत्क्षणं स्मृतिः। रोदितु प्रवृत्तो बालवद् रत्नपालः। हद्धी ! (निवेदे) कुत्र कष्टमनुभवन्ति ते मत्कारणात् ? किं मे विपुलया अनया श्रिया यावत् न जायते मातृपित्रोः दर्शनम् ?
स्वस्थो भव सुपुत्र ! लघु संभाव्यते तेषां सम्मेलनम्, कारापयिप्यामस्तेषामनुसन्धानम् । विधेरनुकूलतया लब्धा भविष्यति तेषां
For Private And Personal Use Only