SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो सर्वेऽपि ते सम्मील्य विकसितवदनकमलाः वर्धापयितु रत्नपालं उपप्रवहणमागताः । जयविजयशब्दैः वर्धापयन्तश्चाटुकारितां कर्तु प्रवृत्ताः- "पुत्र ! वारिवाहमिव चिरं प्रतीक्षमाणास्त्वां प्रतिदिनं वयमत्र स्थिताः । अतिजातः सुतोऽसि त्वं जिनदत्तस्य । उज्ज्वलं कृतं त्वया नामधेयं पितृपादस्य ।” अन्तर्दू नोऽपि व्यवहारार्थ मन्मनोऽपि सपरिक समागतः । रत्नपालेनाऽपि सर्वेऽपि सम्मुखमागताः सुजनाः सानन्दं प्रणमिताः । युष्माकमाशीभिः सर्वं भव्यं जातम् । निर्विघ्ना मकरगृह-यात्रा सम्पन्ना। उत्तारितं वाहनात् कृत्स्नमपि भाण्डं वस्तुजातं च । आडम्बरवती नगरे निर्गता अस्य प्रतिनिर्गमन-यात्रा। समै गरैः प्रेमलोचनैः संभावितः सम्मानितश्च राउल-द्वितीयो रत्नपाल: पूर्व मन्मन-गृहे आगतः। जातं भोजनादिकृत्यम् । पश्चाद् नगरमहत्कानामभिमुखं तल्लिखितानुसारेण सवृद्धिकं पैतृकमृणं तथैव भाण्डमूल्यं च यथास्थितं समर्पितम्। साम्प्रतं न श्रेष्ठिन: ईषदपि मयि ग्रहीतव्यं दातव्यं वा । एवं भणता अनेन सर्व-समक्ष पाटितं लिखित-पत्रम् । गृहीतं मन्मन-हस्ताद् आनृण्यस्य लिखितम् । मन्मनापित-पारितोषिक-प्रतिफलं यद् विपुलं मया लब्धं तत् सर्व मदोयमेव, न श्रेष्ठिनः किञ्चित् । इदानीं श्रेष्ठि-गृहे यदि तिष्ठामि तथापि न हानिः, मामकं गृहमेतत् । परं संतपति मम मानसं निजमालयं विना। तस्माद् ५ मकरगृहयात्रा-समुद्रयात्रा ६ निर्गताः ७ अणरिणस्स-ऋणातीतस्य ८ संतपति, 'संतपे झङ खः (हे० ४-१४०)। For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy