________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमो ऊसासो युष्माकं पन्थानः सन्तु, इति सहर्ष सरोमोद्गम सर्वेः कथितम् । राउलोऽपि तत्र आगतः । विगत-सङ्कोचं अन्तरङ्ग भवद्विरहेण विषण्णोऽपि उपरितनभावेन सानन्दं निषण्णः रत्नपालस्य समकक्षम् । श्वश्र्वा सानुशयं कथितम्–“जामातः ! अस्ति राउलः अस्माकं पुत्रिकायाः अद्वितीयः सहचरः। रत्नवती इव एष युष्माभिः सुरक्षितव्यः किं बहुकथनेन ? आस्माकः अतिप्रियः अयं इति कथयन्ती राज्ञी रोदितु आरब्धा।
"न अत्र मनागपि चिन्ता । इमं सर्वतः अनुकूलयिष्यामि इति मे सत्या प्रतिज्ञा। किं युष्मदीयः एषः सम्प्रति अस्मदीयोऽपि", इति ब्र बता रत्नपालेन सहचरः इव आश्लिष्ट: राउलः अनाकुलम् । साडम्बरा निष्क्रान्ता तयोः हस्तिस्कन्धगतयोः पुरस्य मध्यं मध्येन प्रवास-यात्रा । समुद्रतटपर्यन्तं राजप्रभृतयः सर्वेऽपि आगताः जामातरं प्रतिवालयितुम् । राज्ञा दत्ता अतुला सम्पत् पोते निवेशिता। राउलेनाऽपि रूपपरावर्तन-जटिकायुगलेन सहितं आवश्यकवस्तुजात-पूरितं केवलं एक पेटकं सह नीतम् । राजादिभ्यः कृतप्रणामः मनसि परमेष्ठि-पञ्चकं स्मरन् राउलसहित: जिनदत्तपुत्रो बोहित्थे निविष्टः । सर्वेषां शुभ-मङ्गल-शब्दैः सार्धं सुमुहूर्ते प्रतिचालितं प्रवहणम् । अनुलोम-प्रभञ्जन-प्रेरितं त्वरितं त्वरितं व्रजत् तत् नयनागोचरं जातम् । राजप्रमुखाः सर्वेऽपि परिजनाः सुता
For Private And Personal Use Only