SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमी ऊसासो १६१ खेदं सूचयन्ति 'तत्रगतेनाऽपि भवता कदापि अस्माकं स्मरणं कर्त्तव्यं' इति पुनः पुनः उदीरयन्ति च । रत्नपालोऽपि सर्वेषां तेषां आभारं अङ्गीकुर्वन् कृताञ्जलिः उपतिष्ठते । सर्वेषां याचकानां तत्रगतभृत्यानां पुनः यथोचित वितरणेन एष तुष्टि उत्पादयति । आगतं रत्नपालस्य प्रत्यावलन - दिनम् । इतश्च सज्जा भवति प्रस्थातु ं राउलरूपा रत्नवतो । उद्विग्नं जातं मातरपित्रोः हृदयम् । वाष्पा नयना जायते वारं वारं परम-प्रेम- पोषिता दारिका । परिचितं संसारं हित्वा गन्तव्यं अपरिचितपूर्वं श्वसुरालयम् । कीदृशः कटु-मधुरो व्यवहारः तत्र भविष्यति इति नाना सङ्कल्पपरं मनः । जन्मसङ्गतानां सर्वेषां विरहः उद्वलयति हृदय- समुद्र तस्याः । उत्सङ्गीकृत्य पुत्रिकां माता अश्रुभिः इमां स्नपयन्ती शिक्षयितुं प्रवृत्ता - "प्रियदुहितः ! दुःखिताः वयं सर्वेऽपि अद्य तव विरहेण । किमपि महामूल्यं वस्तुजातं अस्मत्तः दूरितं भवतीति खिन्नं मन्ये चित्तम् । किं बलम् ? 'परगेहगामिन्यो दुहितरः' इति स्फुटा किंवदन्ती । सुखं व्रज तनुजे ! ध्रुवं सौभाग्यं तव भवतु । नित्यं निरामया तिष्ठतु युगलस्य तनूः । क्षार - समुद्र व्रजन्तु तव सर्वपीडाः ! दारिके ! नव्यः प्रदेशः । सर्वेऽपि अलक्षित-स्वभावाः जनाः तत्र । अननुभूता सद्यस्का कार्यप्रणाली । तत्र बहुदक्षतया त्वया भवितव्यम् । 'राजपुत्रिकाऽहं कथं कार्यं करोमि ' For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy