SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमी ऊसासो १५६ पितरः येषां कुले एतादृशः भविष्यद्-योगिकः वंशोद्धारकारकः पुत्रः समुत्पन्नः।” "किं भवतः विरक्तिकारणं क्रीडाविलसिते अननुभूतं जगद्व्यवहारे बाल्ये ? आश्चर्यमिदम् ! कथं त्यक्तः बन्धूनां स्नेहः ? हरे ! लोकोत्तरं कार्यमिदम् ?" जिज्ञासितं रत्नपालेन । प्रतिपदं वैराग्यं समुज्जृम्भते यदि पश्यति जनः जागरूकया दृष्ट्या | अवगतं किं स्थिरं इति न कथं विभाव्यते जगज्जीवः । ' गोसे (प्रभाते) प्रदोषे वा धर्मं करिष्यामि इति कथनं मूढ़ता - विलसितम् । किं न आगमोदघोषणा कर्णगता ? यथा जस्सत्थि मच्चुणा सक्खं जस्स वत्थि पलायणं । जो जाणे ण मरिस्सामि से हु कंखे सुवे सिआ || एवं भणन् राउलो निमोलितनयनो ध्यानं गतः । स्यन्दमानशान्तरसां अस्य सोम्यां मुखमुद्रां निभालयन रत्नपालः प्रभावितो जातः । अत्रान्तरे सज्जीकृतं अनेन बोहित्थम् । स्वदेशदुर्लभं अत्र सुलभं भण्ड क्रीत्वा तस्मिन् निवेशितम् । प्रस्थानदिनं निश्चितम् । व्यवहारमधुरिम्णा अस्य अनेके जनाः सङ्गताः जाताः । सर्वेषां नागराणां प्रीतिभाजनं जातः एषः । ज्ञात्वा प्रत्यावलन - तत्परं एतं सर्वेऽपि ते सौहृदं दर्शयन्तः अस्योपकण्ठ समागच्छन्ति । विविध प्रवृत्तिभिः एतं प्रशंसन्तः ‘पश्चात् कदा सम्मेलनं भविष्यति' इति भणन्तः मुखाकृतिभिः For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy