SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चोत्थो ऊसासो इति भाषायाम्) वातानुकूलं पूरितः सितपटः । चालितं बोहित्थं (नौका इति भाषायाम्) निर्यामकैः । यथा यथा तद् अग्रतः परिवधितं तथा तथा अस्ताघ-जलराशि-मध्यगतं उपरि आकाशं परितो नी नीरमेव नयनपथं अवतरितम् । किं सर्वापि धरा जलमयी जलजलाकारा संवत्ता ? अव्वो ! दर्शनीया स्थितिः तत्त्वदर्शकैः पारावारस्य । 'मा सीमोल्लङघनं भवतु' इति मन्ये शङ्किताः इव अग्रतः सरन्त्योऽपि वीचयः पुनः पश्चात् अवसर्पन्ति । 'न महद्भिः शक्तिप्रदर्शनं कर्त्तव्यम्, इति मन्ये महासामर्थ्यशाली क्षणेन जीवलोकं प्लावयितु क्षमोऽपि समुद्रः समर्यादः तिष्ठति । तस्मात् 'सागरवरगम्भीराः' इति आगमिकैः तीर्थकराणां कृते तादृशी उपमा उपढौकिता। 'वितरेण न दान-शौण्डानां धनहानिर्भवेत्' इति शून्यानि महापयोधरोदराणि सततं बिभ्रद् अपि न रिक्ततां प्राप्तोऽस्मि' इतिदर्शयन् मन्ये उल्लोलकल्लोलैः राजते । तैः खलु प्राप्तव्यानि महार्घ्य-रत्नानि मुक्ताफलानि च ये अभीताः निम्न-जलमध्य-प्रवेशनपराः हस्तगतप्राणाास्युश्च धीवराः, न पुनः दरितहृदयैः केवलं पुलिन-चङ क्रमणप्रवणैः इति दर्शयन् इव विकीर्णश्लक्ष्ण-शङ्ख-शक्त्युत्कर-विस्तीर्णेन तटेन राजते । एवं काव्य-कल्पनापरः . भानुमतीसुतः मध्ये-समुद्र सकुशलं व्रजति । यद् यत् चिन्तयति अल्पज्ञः मनुजः तत् तत् सर्वं तादृशं भवतीति न निश्चितः नियमः। अव्वो! मनुजचिन्तितं यदि सर्वं साकारं सम्पद्यते, तदा एकेन खलु क्षणेन विसंस्थुलं जायते जगतीकार्यम्, For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy