________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सइओ ऊसासो __ "हा ! केन शठेन विपरीतं पाठितः एष दृढतया। चित्र ! अस्य स्वभावे कीदृशी रुक्षता समागता। अत्यन्तलज्जालुः अल्पभाषी अपि अद्य कीदृशो वाचालः स्थूलवचाश्च जातः। धिग् ! धिग ! उप्पालेन (मत्सरिणा) सर्वमपि निष्पलं कृतम् । असाध्योऽयं रोगः। प्रत्यक्ष निराशा अस्य आशा” अवसितं मन्मनेन ।
"करिष्यामि सर्वमेव प्रबन्धं शीघ्रमेव पुत्र ! अधुना तु भोजनं गृहीतव्यम् ।'' कथयता एवं श्रेष्ठिना उत्थापितः पुत्रो भोजनार्थम् । अनासादितरसा सरसा अपि रसवती कथं कथमपि आसादिता एताभ्याम् । अत्रान्तरे आहूताः मन्मनेन निजसत्काः वाणिज्य-कुशलाः पुरुषाः। कथितं सर्वमपि करणीयं कार्यम् । सज्जीकृतं यानपात्रम् । अत्र सुलभेन भण्डेन भरितं तत् । प्रशस्त-तिथि-करण-योग-संयुता शुभमुहूर्ता प्रस्थानवेला निश्चिता । आगते तस्मिन् समये सर्वेषां सम्मुखं सविनयं जनक-स्थानीयं मन्मनं प्रणमता रत्नेन सूचितम् - "मम कृते कृतं पितृपादस्य ऋणं मोचयितु गच्छामि अहं अद्य देशान्तरम् । एतावत्कालं अहमत्र परमानन्देन स्थितः, औरसपोतवत् परमस्नेहेन लालितः पालितः सर्वाङ्गीणं सुखं प्राप्तः । एतेषां महानुभावानां अद्यापि तादृशी प्रीतिः । तथापि 'मया कर्तव्यं पालनीयम्' इति प्रवसामि सम्प्रति । यानपात्र यत् भण्डं विक्र यं तत् सर्व श्रेष्ठिनः विद्यते, न किञ्चिदपि मम । देशान्तरं गत्वा भण्डं विक्रीय यल्लाभं लप्स्ये तेन पितृ-पादस्य गृहीत' सकुसीद धनं तथा यानपात्रगतमपि द्रव्य प्रत्यर्पयिष्यामि । प्रस्थानकालिकं पारितोषिकं यद्
य उप्पालो (पा० १२३) २ गृहीतव्यम् ३ यानपात्रम्-पोत इत्यर्थः । ४ सकुसीदम्-'ब्याज सहित' इति भाषा ।
For Private And Personal Use Only