________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ ऊसासो
१०१ हिम-पिण्डलिका इव तरलिता जाता । ऊ ! क: पोरच्छ-पौरस्त्यः (धूर्तशेखरः)अस्य मिलितो मे जन्मजन्मान्तरप्रतिपक्षः? हा ! खलु खलेन सुघटितः सुमण्डितो वंश-प्रासादः अनर्थं भूमिसात् कृतः । पिशुन ! किं ते हस्ते आगतं मे कल्पना-कल्पतरु-कल्पनेन ? बत ! बत ! विचित्रो मधुमुखानां (पिशुनानां) स्वभावो यत् अकारणं ते परदुःखेन सुखिताः परनाशन च तुष्टाः दुष्टाः । अरे ! निरर्थका जाता सर्वापि अस्य लालना पालना। उत ! भवति किं पर-पुत्रण वासितं गृहम् ? एवं बहु विकल्पयन् स मन्मन: कमपि उपायं गवेषयन् वक्तं प्रवृत्तः"पुत्र ! केन त्वं परसुख-दुर्बलेन खलेन मुधा भ्र शितो निरर्थक आशङ्कां च प्रापितः असि ? को जिनदत्तः ? का भानुमती ? केन द्र हिलेन घटितानि कपोल-कल्पितानि अमूनि नामधेयानि ? ततः मा भ्रान्तिभाग भव, शीघ्र चल, कुरु च सहभोजनम् । पश्य, भवति शीतला नाना-व्यञ्जन-संयुक्ता सरसा रसवती । प्रतीक्षते तव माता जातं अपश्यन्ती ग्रथिलीभूता।
अलाहि श्रेष्ठिप्रवर ! यथार्थ-वस्तूपरि कपट-पटाक्ष पेण । बहु जातं इदं यत् अद्यप्रभृति रक्षितोऽहं सन्तमसे । सम्प्रति प्रज्वलितः मे ज्ञानप्रदीपः । अथवा विभाता मे भ्रान्ति-स्वामिनी अज्ञान-यामिनी । पूर्व कर्तव्या मम प्रवासगमन-व्यवस्था । श्चात् ग्रहीष्यामि अहं किमपि भोजनम् । हन्त ! यदि मया एष वृत्तान्तः पूर्वं ज्ञातः अभविष्यत् तदा कियत् सुन्दरं अभविष्यत् ।” निःशङ्ग व्यञ्जितं बालेनापि रत्नपालेन।
छेदनमित्यर्थः ४ मुहुमुहः-पिशुनः तेषाम् ५ भुल्लविओ भ्रशितः, 'भ्रशेः फिडफिट्ट फुड-फुट-चुक्क-भुल्लाः' (हे० ४-१७७) ६ विभाता-विभात-प्रभातं प्राप्तेत्यर्थः ७ भ्रान्ति-स्वामिनी-भ्रान्तिमयीत्यर्थः ।
For Private And Personal Use Only