SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो स्तब्धेन त्वं पराभूतः ? भण वत्स ! भण यथावृत्तं वृत्तान्तम्, पृच्छति तव व्याकुलो जनकः शीघ्रमेव तत्प्रतीकारं कर्तुकामः । एवं आश्वसता मन्मनेन बाहुभ्यां संहृत्य उत्थापितः पुत्रः क्रोडीकृतः । मस्तकं जिघ्रन् नयनजलाई लपनं माष्टुं लग्नः । एवं मन्मनेन परिपृष्टः साग्रहं यथाभूतं व्यतिकरं प्रकटोक प्रेरितः सगद्गदाक्षरं रत्नपालः स्फुटं अकार्षीत् यथाज्ञातम् रहस्यम् - "सन्ति खलु तत्रभवन्तो भवन्तः पितृ-समानाः मे श्रेष्ठिप्रवराः, परं न मे जनकाः वस्तुतः। बुद्ध मया अद्य सर्वमपि गुह्यम् । अस्ति स्नेहाङ कुर-घनाघनः महामनाः प्रकटसत्त्वः जिनदत्तः मे पूज्यः पिता । प्रत्यक्ष प्रेमनदी भानुमती मे जन्म-दायिनी जननी। हन्त ! हन्त ! दारिद्रय-दवदग्धाः मुक्त्वा मां अर्थ-परावर्तनेन युष्माकं गृहे, अज्ञाताः कुत्रापि प्रोषिताः। सम्प्रति मे जननीजनको आगम्य कथयतः'आगच्छपुत्र' तत्क्षणं अविलम्ब तैः सार्धं व्रजामि निःसन्देहं निजं गृहम् । हद्धी ! किं परगृह-स्थिति-सुखं सुखम् ? त्रुटितं उटजमपि निजं निजम्, धवलगृहमपि परकीयं परकीयम् ।” एवं भणन् स तारस्वरं परिदेवितु प्रवृत्तः । अविभावितं, अवितर्कितं, अप्रत्याशितं च श्रुत्वा रत्नवचनम् मन्मनेन अनुभूता कापि असहनीया अतुला वेदना। तीव्रगति प्राप्ता हृदयगतिः। विस्फारितं जातं नेत्र-युगलम् । चिरसंस्त्याना आशा For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy