SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इओसी ६३ प्रतिवचः श्रवणैकतत्परं विलम्बासहं विलोक्य बालमुखं अन्ते स्थविरेण सदाक्षिण्यं मनाग् रहस्योद्घाटनं कृतम् — “पुत्र ! विचित्रोऽयं महार्णवरूपः संसारः । किं अघटितं न घटते अत्र जन्तूनाम् ? तावदेव मनुजः उद्धतो भवति यावत् तेन न अतीतं प्रत्यक्ष क्रियते । आर्य ! सर्वापि दृष्टिपथं आगच्छन्ती जगतो लीला न मृगतृष्णातिरिक्ता । केवलं आशा नभः-सङ्काशा । भद्र ! अलाहि रहस्य - प्रस्फोटनेन । स्खलति मे रसना तव इतिवृत्तं प्रकटीकर्तुम् । तथापि अस्ति ते तीव्रा जिज्ञासा तदा कथयामि किञ्चित् तव अविज्ञातं पूर्व-चरितम् । शृणु "आसीत् नगरजनमाननीयः आढ्यस्ते पिता जिनदत्तः । प्रियंवदा दानशीला भानुमती साक्षात् लक्ष्मीस्ते जननी । आसीत् यदा त्वं गर्भे तदानीं जातोऽकस्मात् आपत्तडिन्निपातस्तव समृद्धेः उपरि । स्वप्नविलायं विलीना सर्वापि वंश-परम्परा - सञ्चिता लक्ष्मीः । यावद् द्रविण - विनिमयेन मन्मन-गृहे त्वां रक्षित्वा रजन्यां अलक्षितौ अन्यत्र पलायितौ ते जननी जनकौ । एवं कथयन् स स्थविरः वाष्पजलाकुलनयनः संवृत्तः । आसीत् तव पिता मे परमं मित्रम् । न एतादृशः सुजन: मया दृष्टः अन्यजनः । पुत्र ! सम्प्रति न जानामि कुत्र तौ यापयतः विपत्कालं तव विरह- दुर्बलौ । कुलभानो ! अस्ति त्वदीयं परमं कृत्यं इदं यत् लिखितानुसारं निजहस्तेन प्रभूतं धनं अर्जयित्वा ऋणमुक्तो भूत्वा पित्रोः गवेषणां कृत्वा तैः सार्धं निजं गृहं गच्छेः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy