SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो इति दूषितः कलङ्कितः अहम् ? किमन्यौ मे जन्मदायकौ मातरपितरौ ? किं न मन्मनो मे तात्विकः पिता? अन्वो ! न गुह्य यावद् विशदीकरोमि तावत् न मया किमपि प्रत्युत्तरितव्यम् । इति निश्चित्य शीघ्रमेव ततः उत्थितः नाना-विकल्प-प्रेङ खोलितमानसः तूष्णीमासेवमानस्तत्व-गवेषण-तत्पररचलितः । मार्गे आपणिक: एकः स्थविरः आपणे स्थितो दृष्टि-पथं गतः। विमनोदुर्मनाः स अतीतं रहस्यं प्रकटीकारयितुकामः तस्य ससीमं आगतः । हिम-प्लुष्टमरविन्दमिव म्लायन्मुखं इमं रत्नपालं लक्षयित्वा 'किं कारणम्' इति गवेषणापरः स प्रष्टु लग्नः- "वत्स ! कस्मात् त्वं दृश्यसे अद्य गभीर-चिन्ता-विह्वलः ? नित्य प्रफुल्लं तव वदन-शत पत्र कथं अद्य त्रस्तं वीडितं मम प्रतिभाति ? भण, शीघ्र भण, यथा तव दुःख-प्रतीकारं करोमि किञ्चित् ।” दीर्घ उष्णं निःश्वसता रत्नेन सूचितः सर्वोऽपि यथावृत्तं वृत्तान्तः। कथं अहं तेन निर्भत्सितः 'क्रीतदास' इति शब्देन ? कि रहस्यं विद्यते अत्र ? कः एतादृशः गुह्यः व्यतिकरः । जिज्ञासामि तात ! सर्वमिदं यथातथम् । आकर्ण्य रत्नपालस्य पृच्छनं स्मेराननः जातः स परिणतवयाः । अनुभूतं अतीत प्रत्यक्ष परिस्फुरितं तस्य । अवक्तव्यं गुह्यमिदं ईषत्स्फुटिताधरोऽपि मूकायितः स्थितः । हिमदग्धमित्यर्थः । ४ वस्तम् 'त्रस्तस्य हित्थतट्ठौ (हे० २-१३६) ५ निभत्सित; ६ ईषत्स्फुटिताधर: 'दरार्धाऽल्पे' (हे० २-११५) ७ मूकः For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy