SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो इषदपि । अद्य तु प्रतिज्ञातं मया अगृहीतधनेन न हातव्यं स्थानमिदम् । इति कथयित्वा तत्र व निश्चलं स्थितः रत्नपाल: रचित-पर्यस्तिकः । सगर्ह श्रुत्वा तस्य थुडङ्किअयं (रोषयुक्त) वचनं परोऽपि कोपकम्पिताधरः जातः । अरे ! दुग्धगन्धिकमुखोऽपि यत् किमपि अपलपति 'जम्बुल्लः (वाचालः) । जानामि अहमपि अस्य अव्यञ्जनीयं व्यतीतम्। प्रगल्भो न जानाति व्यक्त-स्वगृहस्य स्थितिम् । 'जम्भणम्भणो' (स्वच्छन्दभाषी) कथं न लज्जते नीति उपदिशन् । तस्मात् विशदं करोमि अस्य पुरतो मातृ-पित्रोः दुःखदं वृत्तान्तम् । इति चिन्तयित्वा कोपकाषायितनेत्रः स सगर्ह वक्तु आरब्धः- "अरे ! धृष्ट ! तूष्णीको भव तूष्णीकः । मा मुधा प्रागल्भ्यं दर्शय । न जानासि महामूर्ख ! मातृ-पित्रोः प्रवासकारणं तव जन्म इति । क्रीतदास ! कस्मात् त्वं एतादृशं धृष्टत्वं दर्शयसि, किं अपितं ते बप्पेन (पित्रा) मह्य द्रव्यम् । अपसर ! अपसर ! वराक ! ('बापड़ा' इति भाषायाम्) इतः आकर्णयितु निजं कज्जलितं अतीतम् । जन्मान्ध ! कथं गर्वितो भूत्वा भ्रमसि ? नाहं तुभ्यं किमपि दास्यामि । नास्ति नाम कोऽपि तव अधिकारो मार्गणार्थं इह ।" इत्थं समुखविकूणितं अधमर्णस्य कर्कशवचनतीरैस्ताडितो मर्माहतः अज्ञात-तदुपालम्भ-हृदयः शङ्कितः कलुषसमापन्नश्च असमञ्जसां दशां प्राप्तः । कथं एष उपालभते गर्हते च मां अविचारित-वाक्य पाषाण-प्रक्ष पेण । कस्मात् एतेन 'क्रीतदासः' भाषी ७ प्रागल्भ्यं ८ पित्रा 'बाप' इति भाषा (दे०) ६ अपसर १० 'बापडा' इतिभाषा (दे०) ११ हविअ-भूत्वा १२ अज्ञात-तदुपालम्भहृदयः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy