________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ ऊसासो उपगृहन्तः पुल किताः भवन्ति । परं इत्तोप्पं (इतः प्रभृति) विविधगृहकार्यकुशलेनापि न ज्ञातं कोऽहम्' इति रहस्यं अनेन । मन्मनेनापि विष्वक् एतादृशं अनुकूलं वातावरणं जनितं येन मनागपि न अस्य कदापि अस्मिन् विषये मानसं संदिग्धं भवति । 'मन्मनः एव मे पिता, मन्मन-भार्या एव मम जन्मदायिका जननी' इति जानाति सः । न दृष्टः कोऽपि कदापि विपर्यासः । परं परमनिगृहितमपि तुषराशौ छन्नं स्फुलिङ्गवत् रहस्यं यदा कदा बहिः आगच्छति । यदस्ति तदस्ति एव, तस्य नास्तित्वं कथं भवति इति निश्चितं तत्त्वम् ।
गतः एकदा रत्नपालः अधमर्णस्य गृहे वृद्धि गतं धनं पुनः आनेतुम् । न प्रत्यर्पयितु क्षमः स स्थिति-वशंवदः । बालत्वात् अविज्ञातपरार्थपारतन्त्र्यः कृत-कदाग्रहः तत्र व स्थितः। नाहं अद्य अगृहीत-सवृद्धिरिक्थो रिक्तहस्तः प्रत्यावलिष्ये । अनेकवारं समागतोऽहं इह धननानेतुम्, परन्तु त्वं निरन्तरं किमपि किमपि मिषमादाय मां परावर्तयसे। हा ! धिक् ! कीदृशी जनानां नीतिर्जाता। यदा ग्रहणीयं धनं तदानीं तु मधुरमधुर-वचनैर्वदन्ति । 'यूयं किल अस्माकं संरक्षकाः, पालकाः, जीवनदानदायका' इति लालप्यमाना अद्वितीयं सौजन्यं प्रकटयन्ति । सम्पन्न कार्ये, करायत्ते अर्थे च न कोऽपि सम्बन्धः इति दूरतः निस्सरन्ति । दायकेन व्याहृता रक्तनयना यत् किमपि प्रत्युत्तरन्तः उत्तेजिताः भवन्ति । हन्त ! आगतः कीदृशः विचित्रो दुःषमः, जनैः गृहीतं दातव्यम्' इति विस्मृतम् । परन्तु नाहं त्यक्ष्यामि समर्पित
३ अधमर्णस्य-ग्राहकस्येत्यर्थः ४ बालत्वात् ५ अविज्ञातपरार्थ-पारतन्त्र्यः ६ कृतकदाग्रहः ७ व्याहृताः ।
For Private And Personal Use Only