________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतश्च अति सुखेन लालितः पालितः रत्नपालः बालः चङ्क्रमणक्षमो जातः। सवयोभिः साधू अनेकाभिः डिम्भ-क्रीडाभिः क्रीडन् क्षणेन हृष्यन्, हसन्, रुदन् भूतले आलुण्ठन् सयज्झ-शावैः (प्रातिवेश्मिक-बालैः) वितिष्ठन् कृपणस्य हृदयं विकासयति, प्रसादयति, आनन्दानन्दितं च करोति । अनेकैः आधि-व्याधिभिः सुरक्षितः सङ्गोपितः पुत्रः अष्टवार्षिकः जातः । प्रस्थापितः मन्मनेन पठननिमित्तं पाठशालायां अनुभविनो गुरोः समीपम् । विनय-विवेकसम्पन्नः एष चपलमेधया विद्याध्ययनं कुर्वन् नानाविद्यापारङ्गतो जातः । इङ्गिताकारं आराधयन् अध्यापकस्य परमं प्रसादं प्राप्तः । विद्याभारगुरुकोऽपि लाघवगुणैः सर्वत्र श्लाघनीयः ज्ञातः। मन्मनेनापि गृहकार्ये आदान-प्रदाने आपण-व्यापरे च परिचितः संसक्तश्च कृतः । द्वादशवार्षिकोऽपि परिणतवयाः इव कार्यकुशलः संवृत्तः । आपणे तिष्ठन्, व्यापार कुर्वन्, मधुरं व्यवहरन् च सर्वेषां अतीव चक्ष ष्यः लगति । अनेके ग्राहकाः तु अनेन वार्तालापेन सन्तुष्टाः तत्र तिष्ठन्ति । 'बालोऽपि कीदृशो दक्षः' इति भृशं प्रशंसन्तः उरसा
२ वितिष्ठन् : आदानप्रदाने ४ चक्षुष्यः-सुभगः ।
For Private And Personal Use Only