SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो तिष्ठन्ति, मोदन्ते, क्रीडन्ति, यत् किमपि-जल्पन्तश्च प्रगल्भन्ते ।" पिशुनितं धनदत्तेन । चित्रम् ! धूर्त-शेखराणां अलक्षणीया वञ्चन-प्रणाली। वचनेषु अन्यत्, अन्यत् पुनः विचारेषु । तेषां मधुरजल्पनमपि विष-मिश्रितम् ! तेषां हसित्री । हसनशीला) आकृतिरपि कषाय-कलुषा विकृतिः । तेषां सम्मान-दानमपि अलक्षित-मायावितानम् । क्षणमपि तेषां सङ्गतिः प्रत्यक्ष दुर्गतिः । अथवा किं एतादृशं कार्यं अकरणीयं यत् न समाचरति दुर्जनो जनः ? अलं तेषां कथाभिः । पुनरपि वञ्चकेन मधु-लिप्त-खड्गधारा-समया सरस्वत्या प्रपञ्चितम्- "तस्मात् सौम्य ! एहि मया साधू मम गृहपर्यन्तं, ददामि त्रीणि आणकानि तुभ्यम् । अस्ति मनुजदृष्ट्या त्वमपि भ्राता मे किं बहुप्रलापेन ?' 'कीदृशः कृपालुः' इति कल्पयन् भद्रो जिनदत्तः तमनुगतः। क्षिप्तः काष्ठभारः। गृहीतानि वारयतापि तेन प्रसह्य दीयमानानि त्रीणि आणकानि । “न अतः ऊर्ध्वं त्वया कुत्रापि भ्रमितव्यं काष्ठभारं विक्रतु प्रतिदिनम् । अहमेव निश्चित-मूल्येन ग्रहीष्यामि तम् । किं किं न युज्यते ज्येष्ठाश्रमिणां गृहे, काष्ठं तु पुननित्यं व्यापारणीयं वस्तु" सान्त्वयता कथितं धनदत्तेन । 'एकः एव स्थिरः ग्राहकः संवृत्तः' इति जिनदत्त: यत्र तत्र भ्रमण-सन्तप्तः मोमुदितः जातः । किं रहस्यमिति तथापि न लक्षितं १ प्रगल्भन्ते २ सरस्वत्याः ३ क्षिप्तः 'वृक्ष-क्षिप्तयोः रुक्ख-छूढौ (हे० २-१२७) ४ प्रसह्य ५ सान्त्वयता। For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy