________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
तमादाय निजागारं, समागत्य स सुन्दरः। प्रियाय अर्पयामास, मनोहरमपि स्वयम् ॥ २७ ॥ तामुक्तवांश्वापुत्राभ्यां, वनदेवतया ददे। कल्पद्रुमाङ्कर इव, पालनीयस्त्वया प्रिये ॥ २८॥ ताभ्यां हर्षप्रकर्षाभ्यां चक्रे जन्ममहोत्सवम् । रणसिंहाभिधानं च, तस्य कल्याणवासरे ।। २६ ।। धात्रीभिर्लाभ्यमानोऽसौ, वर्द्धमानः पदे पदे । कलासु कुशलो जज्ञो, शस्त्रे शास्त्र विशारदः ।। ३०॥ सोऽन्यदा मत्तमातङ्गः- रथाश्वारोहणादिभिः । राजक्रीडाभिरनिशं, क्रीडतिस्म महापथे ॥ ३१ ॥ अर्थकदाऽप्याऽवसरं, पुसा श्रीराज्यमानिना। अवाचि विजयस्याने,-ऽग्रमहिष्य विचेष्टितं ॥ ३२ ॥ तन्मुखान्निखिलं मच्चा, देव्या असमसाहसं । वज्रायुधाहत इब, कस्माज्जातो जनेश्वरः ।। ३३ ।। दाध्योचेयं महादुष्टां, पापिष्टा कूटसंकुटी । वंचद्रोहरतामाया, वल्लरीजलसन्निभा ॥ ३४ ॥ चित्ते चिन्तयते याऽन्यद्, रमणे रमते परं । ब्रवीति वचनं चान्यत्, सा कथं ? सुखहेतवे ।। ३५ ॥ विरक्ता विषवल्लीव, नूनं प्राणापहारिणी । या रक्ता मृतवल्लीव, सर्वाङ्गसुखदायिनी ॥ २६ ॥ क्षणं सक्ता क्षणं रुष्टा, क्षणं दर्शित-दर्शना । विद्य चपल-संचारा, प्रकटं कुटिलालिका ॥ ३७ ।।
For Private and Personal Use Only