________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राम- पुत्रः पवनंजयनामा. कथंतोऽसौ ? पीनोन्नतस्कंधः, सत्यसंधः, कमलवदनः, नज्ज्वलरदनः, सुर. निनिःश्वासः, लक्ष्मीनिवासः, सरलनाशावंशः, पृथिवीपीगवतंसः, प्रलंबकर्णः, सुवर्णवर्णः, विशाल
नेत्रः, सर्वकलाशालिक्षेत्रः, अष्टमीचंडसमाननालस्थलः, अनाकलितबलः, कऊलश्यामकेशपाशः, सर्वजनपूरिताशः, सत्वैकतानवृत्तिः, नजयपदनिर्मलप्रवृत्तिः, त्रिशक्तिसमन्वितः, चतुर्विद्यालंकृतः, जितपंचेंद्रियविक्रमः, षण्मुखपराक्रमः, सप्तराज्यांगविराजितः, अष्टविधमदविवर्जितः, नवनिधानाकरजांमागारः, दशदिग्विख्यातसारः, एकादशकलाधारः, द्वादशसूर्यसमतेजाः, त्रयोदशयदाकृतसान्नि ध्यः, चतुर्दशविद्यालब्धमध्यः, पंचदशविधदत्तदानः, षोडशकलासंपूर्णचंऽसमानः, सप्तदशजिनपूजकः, अष्टादशदेशविख्यातकीर्तिकः, एकोनविंशतिपत्तनाधीशः, विंशतिविशोपकवरधर्मधुराधीशः, रूपेण निर्जितमारः, एवंविधः स पवनंजयकुमारोऽस्ति, स च पवनवागनगाम्यस्ति.
इतश्चात्रैव नरते दंतिपर्वते माहेंद्रपुरे माहेंद्रनामा राजानवत्, तस्य माहेंद्रराझो हृदयसुंदरीनानी पट्टराझी, तयोः पुत्र्यंजनासुंदरी लावण्यादिगुणगणालंकृतास्ति, यतः-बाहुबंदमृणालमास्यकमलंखावएयजाखं जलं । नारीणां कुचचक्रवाकयुगलं धम्मिलसेवालकाः ॥ श्रोणीतीररसाचने
For Private And Personal Use Only