________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम-त्वमितोऽयोध्यां याहि रामलक्ष्मणसंनिधौ, यत एष चमरदेवस्तव देशं व्याधिना पीडयिष्यति. तत |
कुखदेवतावचनं श्रुत्वा शत्रुघ्नोऽयोध्यायां रामलदमणसमीपे समागात. तत्र च रामसमीपे सुखेना. स्थात्, तत्र च रामलक्ष्मणपुण्यप्रनावाचमरस्य किमपि न चलति. पुण्यं सर्वत्र सुखाय प्रवर्तते. य. तः-वने रणे शत्रुजलामिमध्ये । महार्णवे पर्वतमस्तके वा ॥ सुप्तं प्रमत्तं विषम स्थितं वा । रदति पुण्यानि पुरा कृतानि ।। १ ।।
तस्मिन् समये विहरंतो देशनृषणकुलवृषणनामानी केवलिमुनी अयोध्यायां समागतो, राम लक्ष्मणशत्रुघ्नास्तौ मुनी वयंदिरे, ततो रामेण स मुनिः पृष्टो स्वामिन् ! केन हेतुना शत्रुन्नेनान्यां राजधानी दीयमानामप्यनिहता मथुरा मार्गिता. पुनर्मथुरां गत्वा मधुराज हत्वा मढ़ता कष्टेन म. थुरा गृहीता, एवं मथुराया नपरि कोऽस्य प्रतिबंधः? तदा देशषणमुनिनोक्तं शत्रुघ्नपूर्वनवक थानकं यथा. जो रामचंद्र श्रृयतां-अयं तव भ्राता शत्रुघ्नजीवो मथुरायामनेकशो मृत्वा मृवोत्पनः, एकस्मिन जवे स श्रीधरनामा रूपवान साधुसेवको विप्रोऽत् , सोऽन्यदा राजमार्ग गबन रा. जमहिष्या ललिताख्यया दृष्टः, तपेण मोहितया तया राड्या रंतुकामया निजदासी प्रेष्य स था.
For Private And Personal Use Only