________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र
राम- ससैन्यः पाताललंकातस्तत्रागतः, एवमन्येऽपि विद्याधराः समाजग्मुः. ततः सुग्रीवः स्वयं विलो.
कनकृते निर्गतः, स च स्थाने स्थाने विलोकयन कंबूढोपे समागतः. तं दृष्ट्वा रत्नजटी विद्याधर श्चिंतयति, किमेष सुग्रीवोऽत्रागतोऽस्ति ? किं दशमौलिना ममापराध संस्मृत्य मद्दधाय प्रेषितोऽस्ति? अथवा-हृता विद्या दशास्येन । पुरा तावन्महौजसा ॥ इदानीमेष मे प्राणान् । हरिष्यति हरीश्वरः ॥ १॥ इति चिंतापरं रत्नजटिविद्याधरंप्रति सुग्रीवः समीपे गत्वैवमुवाच, अहो रत्नजटिन् किं त्वं मां नोपलदसे? तथा त्वं व्योमगमने किमलसः? रत्नजट्यवोचत हे वानरेश्वर! मम विद्या दशास्येन हृता, जानकी हरतो रावणस्य पृष्टेऽहं धावितः, मयोक्तं रे पापिन् ! मत्स्वामिनो नगिनी हृत्वा त्वं व यास्यसीत्युक्त्वा यावत्खामाकृष्याहं धावितस्तावता तेन रावणेन मम विद्या हृता, अहं चाल पतितः. एतत् श्रुत्वा सुग्रीवेण विमाने समारोप्य स रत्नजटो रामसमीपं नीतः, तत्र च सुग्री वेण सकलोऽपि वृत्तांतो रत्नजटिमुखेन विज्ञापितः, यथा हे श्रीराम! सीता रावणेन हृता, पुष्पके विमाने चारोपिता हा राम! हा देवरसौमित्रे! हा भ्रात मंडल! शति वादिनी रुदंती समुद्रोपरि | गळती पूत्कुर्वती मया श्रुता श्रवणान्यां, दृष्टा च नेत्रान्यां, ततोऽहं धावितो मत्स्वामिभगिनीति ।
For Private And Personal Use Only