________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१७
राम- चुकुनुः. ततो जंबूदीपाधिपतिः किलकिलारावकारिणो विहितविविधदुष्टोपायान् पर्वतशृंगनिपातनप- | जा रांश्च व्यंतरान् प्रेरयामास, तथापि ते न चुकुखुः. ततस्ते व्यंतरा रत्नश्रवसं कैकशी चंद्रनखां च वि.
कृत्य तेषामग्रे चिक्षेप, ते च साश्रुनयनाः करुणस्वरं चक्रंदुर्यथा हे पुत्रा एते वयं लुब्धकैः पशव व निर्द यैरेतैर्युष्माकं पश्यतां हन्यामहे, उत्तिष्टातो वत्स दशकंधर! हे कुंभकर्ण! नो विनीषण! अस्मांस्त्रायस्व? हे पुत्र दशकंधर! तवाहंकृतिः क गता, तव शक्तिश्च क विलीना? तव पुस्त एते पापा अस्मान् यमसदनं नयंति. तथापि ते न चलिताः. ततो देवेन मायया दशकंधरकंधरांस त्वा कुंजकर्णबिन्नीषणयोः पुरतः पातिता, तां दृष्ट्वा ब्रातृनक्तितः कुंभकर्णबिनीषणी किंचिचलितो, कोपवशं च गतौ, रावणस्तु परमार्थझो न चलितो मनागपि मनसि, गिरी व निश्चलश्चासीत. तदाकाशे साधुसाध्विति देववाणी प्रकटीता, सर्वेऽपि व्यंतराः पुष्पवृष्टिं चक्रुः तस्मिन् समये सहस्रविद्या द्योतितांबरास्तत्र समन्येयुः, सर्वानिश्च संजय वृतः स दशाननः. ताश्च विद्या यया-प्रज्ञा प्सी रोहिणी गौरी। गांधारी च तथा परा ॥ ननःसंचारिणी काम-दायिनी द्योतितांवरा ॥१॥ | अणिमा लघिमा दोभ्या । मनःस्तंननकारिणी ॥ श्रुतिदाना तपोरूपा । दहनी विपुलोदरी॥शा
For Private And Personal Use Only