SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुण्यसारकथानकम्। SCA4A5 ॥१॥ 4%AEKRECACK दासीयद्देववास्तव्यं, सुधाकुण्डसरोवरम् । कैल्पशाखीयमानदु, बभौ स्वर्णपुरं पुरम् ॥ ९॥ प्रासादा यत्र जैनेशा, जनदृष्टिमृगा बले:(मृगावले.)। रेजुरानन्दहेतुत्वा,-दपूर्वा वागुरा इव ।। १०॥ देयादाक्षिण्यनीत्यादि,-धामानन्दितभूतलः । र्जिनचन्द्रोऽभवञ्चन्द्र, इव श्रेष्ठ्यत्र सद्वसुः ॥११॥ रूपं निरुपम यस्याः, शीलमाश्चर्यमन्दिरम् । सौभाग्यमस्त्यरो(हो)काम्यं, साऽस्य शीलवती प्रिया ॥ १२ ॥ तयोराहतधम्मक,-तानयोस्तनयोऽभवत् । धर्मसाराभिधो भोग,-भङ्गीषु सततं रतः ॥ १३ ॥ भवकष्टोत्कराराम,-वारिदान् व्यसनान्यलम् । सेवन् जज्ञे धर्मसारः, प्रमत्तो धर्मकर्मणि ॥ १४ ॥ शालिदाल्यादिकं भोज्यं, कृत्वा तात्कालिकं वरम् । निःस्वादूकृतपीयूषं, नानाभङ्गिभिरद्भुतम् ॥ १५ ॥ परिवेष्य सदा वक्ति, बोधाय जननी सुतम् । जेमन् पेयुषितं नित्यं, वत्स दुःखी भविष्यसि ॥ १६ ॥ युग्मम् । ततोऽवादीत्सुतो मात,-भोज्यं तत्कालनिर्मितम् । दत्वा पयुषितं वक्षि, किमेवं पुरतो मम ॥ १७॥ तूष्णीभूय तदा माता, भूयोऽपि प्रतिवासरम् । परिवेष्याशनं पूर्व, तदेवावोचतात्मजम् ॥१८॥ १. दासीयन्तः कोऽर्थः ! दासतुल्याः देववास्तव्या यत्र तत् । २. सुधाकुण्डवत् आचरन्ति सुधाकुण्डतः सुधाकुण्डन्ति सरोवराणि यत्र । ३. कल्पशाखीयमानाः, कोऽर्थः ! कल्पवृक्षतुल्याः द्रवो वृक्षा यत्र तत् । ४. जिनेशस्य इमे जैनेशाः। ५. दयादाक्षिण्यनीत्यादीनां धाम तेजः तेन आनन्दितभूतलः । ६. जिनचन्द्रनामा श्रेष्ठी । ७. वसूनि किरणानि यस्य वसुः(सु) द्रव्यं यस्य । ८. भवकष्टस्य उत्कराः-समूहाः, त एव आरामाः, तेषु वारिदाः, तान् ॥ ९. पर्युषितं-शीतं अन्नम् । %25ACEk ॥१॥ For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy