________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyarmandie
ACE%94%AHAR
+CCCC
समधर्मेदृशः सूरि-प्रेषितो यन्ममाङ्गणम् । प्राप्तोऽपि व्यर्थिताशः सन् , पश्चाद् यास्यति मन्दिरम् ॥ २५०॥ बुभुक्षार्तस्य मे नून, तन्मुखात्कवलो गतः । पिपासतश्च पीयूष,-कच्चोलः करतो हृतः ॥ २५१ ।। युग्मम् ।। एवं निन्ध (निष्ठ्यं) विषीदन्त(न्तं), गतशेवधिवद् भृशम् । चेटकोऽवग् विषीदेः किं, मयि कल्पतरौ सति ।। २५२॥ जातमात्रस्य ते वक्त्रे,-ऽवतीर्यापि भवान्तरे । प्रबोधं धर्मसारस्य, विधास्येऽहमसंशयम् ॥ २५३ ।। पित्रेव चेटकेनैव,-माश्वस्तीकृतमानसः । स्थावरः कीर्तिशेषोऽभू,-द्धर्मध्यानपरायणः ।। २५४ ॥ अधुनाऽवसरं ज्ञात्वा, चेटकः समवातरत् । उत्तमाः सं प्रतिज्ञातं, मन्यन्ते जीवितं यतः ।। २५५ ॥ ऐवमाकर्ण्य संवेग,-सुधाम्मोनिधिमागतः । पुण्यचिन्तामणिप्राप्ति-नितान्तोत्पन्नकामनः ॥ २५६ ।। श्रुतसागरसूरीन्द्र,-सेवितं प्रतिवासरम् । धर्मसारो धर्मसार,-चारित्रं समुपाददे ॥ २५७ ।। युग्मम् ॥ श्रुतसागरसूरीन्द्रा-कळूतरत्नैकनीरधेः । श्रुतरत्नानि संगृह्णन् , विजहे स पुरान्तरम् ॥ २५८॥ लब्धराज्यवदानन्द,-पूर्णे जातेऽङ्गजन्मनि । उत्सवं कारयामास, धनसारस्य गेहिनी ॥ २५९ ॥ १. ईदृशः धर्मसारः समधर्मा । २. किं विषादं कुर्याः । ३. आ=समन्तात् श्वस्तीकृतमानस इत्यर्थः । ४. अङ्गीकृतम् । ५. एवं आकर्ण्य चाण्डालः, की० आगतः कर्म-संवेगसुधाम्भोनिधि की० चाण्डालः ! पुण्यमेव चिन्तामणिः तस्य प्राप्तिः, तया नितान्तं उत्पन्नकामनः, कोऽर्थः ! संपूर्णमनोरथः ।
A SA%
CAMECCA5%
For Private and Personal Use Only