________________
Shri Mahavir Jain Aradhana Kendra
भी
पुण्यसारकथानकम्।
॥ १३ ॥
www.kobatirth.org
अधः कुर्वन् सुधां सूरि, राजो भूयोऽप्यभाषत । भोज्यं भग्नीपतेरट्टे, स्थावरोऽदापयद्यदा ।। २४१ ॥ दुर्वारवैरिविक्षिप्त, - क्षुरिकाग्रप्रहारवत् । तदैव सदनं प्राप्तो, निष्ट्यः शूलेन बाधितः ॥ २४२ ॥ युग्मम् || संक्षुब्धः स्थावरः शूला, - दायुर्वृक्षकुठारतः । सस्मार चेटकं सिद्धं बन्धुवत्प्रीतिसाधनम् ॥ २४३ ॥ स्मृतमात्रस्ततः प्राप्त, वेटको वोचतास्मि किम् । भवता संस्मृतो भद्र ! प्रसद्य प्रतिपादय ॥ २४४ ॥ स्थावरो व्याहरच्छूल, -मिदं प्राणहरं किमु । भाविनो वाऽवधेर्ब्रूहि, सोऽवग् भाव्येव सत्वरम् || २४५ || ऊचे निष्ठ्यैः पुनः कुत्रो-त्पत्सो (नोऽयं मुनिपुङ्गवैः । पर्युषिताशनाद्यर्थं प्रष्टुं किं प्रैषि मेऽन्तिके ॥ २४६ ॥ चेटकोsवग् भवान् भावी, धनसारप्रियाङ्गजः । सधर्मभक्तिसंसिद्ध, - धर्मकाञ्चनपूरुषः ॥ २४७ ॥ एवमेव प्रबोधोऽस्य, भवितेति मुनीश्वरैः । प्रेषितोऽसौ तवाभ्यर्णे, तुष्टत्या (तुष्ट आ ) गाच्च सत्वरम् || २४८ ॥ नियोsवादीदहं पुण्य, दुर्विधैकशिरोमणिः । प्रतिकूलोऽधुना दैवः, सरलो वासरो न मे ॥ २४९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. सस्मार, कर्त्ता-स्थावरः, कर्म - चेटकं, की० स्थावरः ? संक्षुब्धः, कस्मात् ? आयुर्वृक्षकुठारतः । २. किमु भावि भविष्यति कर्तृ - इदं शूलं, की० प्राणहरं, वा-अथवा नो भावि, इदं शूलं, की० प्राणहरं इति संबन्धो ब्रूहि । कस्मात् ? अवधेः, स व्यन्तरः प्राह- भावि इदं शूलं, की० प्राणहरं कथं ? शीघ्रम् । ३. पुनः निष्ठ्यः = चाण्डाल ऊचे कुत्र उत्पत्स्ये तथा अयं साधर्मिकः सूरिभिः प्रैषि मम पार्श्वे प्रष्टुं पर्युषिताशनाद्यर्थं किं ? इति प्रच्छाद्वयम् । ४. भविता = भविष्यति प्रतिबोधः अस्य धर्मसारस्य । ५. तव पार्श्वे । ६. पुण्यदारिद्रेषु मध्ये अद्वितीयशिरोमणिः ।
For Private and Personal Use Only
॥ १३ ॥