SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्वाणाध्वनि रोधिनो विजयते तस्याशु निस्संशयं । संपद्येत सदा मुखे, शिवपुरे राज्याभिषेकोत्सवः ।। २३१ ॥ तेदहर्जस्य बालस्या,-श्रुतपूर्वी वचोभरम् । यथामयस्य तथा श्रुत्वा, धर्मसारो 'विसिष्मिये ।। २३२ ॥ वीक्षितेवेन्द्रजालस्य, धर्मसारस्तदाऽद्भुतम् । वच एतद्वृथा सत्यं, वेति संशयमासदत् ।। २३३ ॥ चेत्कोऽप्यतीन्द्रियज्ञानी, भास्वानिह(निव) तमोहरः। आगच्छेत्तर्हि मे सद्यः, समुदेति सुवासरः ॥ २३४॥ एवं दध्यावसौ याव,-त्तावत्सरिः स एव हि । आययात्रिह सौभाग्य,-पुरे विश्वकभाग्यवत् ।।२३५॥ त्रिभिर्विशेषकम् ॥ श्रुतसागरसूरीन्द्रं, स्वभाग्याम्भोजभास्करम् । श्रुत्वायातं मुदासारो, धर्मसारोऽन्तिकेऽगमत् ।। २३६ ॥ सैन्महामूरिराजांघ्रि,-देवयोनखकान्तिभिः । कुमस्तिलकं भाले, कृत्वा सोऽथ व्यजिज्ञपत् ॥ २३७ ॥ तत्कालजातमात्रेण, भागिनेयेन मेऽधुना । उक्तो वृत्तान्त ईदृक्ष, एष सत्यो वृथाऽथवा ॥ २३८ ॥ मुनिराजो जगादाथ, धर्मसार घियांवर! | चलेन्मेरुरपि स्थाना, त्तदुक्तं न पुनः क्वचित् ।। २३९ ॥ व्याहरद्धर्मसारोऽथ, भूयो भूयिष्टविस्मयः । तदहर्जशिशोरेवं, वचःशक्तिरभृत्कथम् ।। २४०॥ 5% RA १. प्रारम्भे । २. तस्मिन् अहि जातस्य । ३. विस्मयपरो बभूव । ४. वीक्षितः(ता)-अवलोकितः(अवलोकयिता), कः ! कर्ताधर्मसारः, कर्म-अद्भुतं आश्चर्य, कस्य इव-इन्द्रजालस्य इव । तदनन्तरं आसदत् धर्मसारः कर्म-संशयं, कथं ? एतद्वचः वृथा सत्यं वा । ५. अतीन्द्रियज्ञानी केवलज्ञानी । ६. सन्महश्च(हसश्च) ते सूरिराजानश्च तेषां अंही ते एव देवौ तयोः । ७. अद्यतनजातबालस्य । For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy