SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री पुण्यसारकथानकम्। ॥ १४ ॥ www.kobatirth.org पुण्यसारं (र) तयैषोऽत्र, चतुष्कोटिधने गृहे । आयात इति नामाम्बा, पुण्यसार इति व्यधात् ॥ २६० ॥ haratम्याङ्गरोचिस्को, विश्वकैरवबोधतः । कंकं नानन्दयत्येष, पार्वणामृतधामवत् ॥ २६१ ॥ यदङ्गाप (x) दलेनैव, पीयूषं विदधे विधिः । चुम्बन्त्या अमुमम्बाया, ह्यस्मात्स्यादधिको रसः || २६२ ।। सर्वलक्षणसंपूर्ण, -- मेतदङ्गनिकेतनम् । रम्यं वीक्ष्येव विश्वस्थ, --मपि सौभाग्यमार्गमत् ( मागता ) || २६३ ।। अन्यथा कथमेतस्मि,--नीश्वरा अप्यसंस्तुताः । अधिकं स्वप्रियापत्या --दपि स्निह्यन्ति साञ्जसम् ॥ युग्मम् || अपकेनैष कर्पूर, - पूरेणैव विनिर्मितः । अन्यथा कथमाश्लिष्टः, शीतलीकुरुते दृशः ।। २६५ ।। तुः स्तन्यैरसौ सौध, द्रव्यवत्कल्पपादपः । रम्यीभवद्वपुः शाखः पुण्यसारोऽवृधत्क्रमात् ॥ २६६ ॥ कलाचार्यात्स जग्राह सकलाः स्वोचिताः कलाः । वारांनिधि यान्ती, वार्षिकी वार्द्धिवल्लभाः ॥ २६७ ॥ कामिनीदृष्टसारङ्ग, वागुराकान्तिभास्करः । कामदन्तावलालानं, यौवनं प्राप स क्रमात् ।। २६८ ॥ तरुणीभिः कटाक्षौधैः शितैर्बाणैः समन्ततः । सर्वाङ्गं हन्यमानोऽपि, स सदा मोदतेतमाम् ॥ २६९ ॥ अपहस्तिकामाङ्ग, - मिमं संवीक्ष्य संस्पृहे । रतिप्रीती विरक्ते नु, निजं तित्यक्षतः पतिम् ॥ २७० ॥ १. कामं = अतिशयेन काम्या मनोहरा अङ्गरोचिर्यस्य असौ० । २. कैरवं = कमलम् । ३. कं जनम् । ४. पूर्णिमाचन्द्रवत् । ५. पीयूषात् । ६. सा माता । ७. अन्यथा = सौभाग्यं विना । ८. बालके । ९. स्नेहं कुर्वन्ति (शीताः करोति ) । १०. यथाऽसौ द्रव्यैः कृत्वा कल्पपादपः वृद्धिं गच्छति तथाऽसौ अवृधत् । ११. तिरस्कृतरमणाङ्गम् । १२. साभिलाषे । १३. त्यक्तुं वाञ्छतः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १४ ॥
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy