________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
पुण्यसारकथानकम्
क्षित्वा मध्येगृहममुं, गर्तायां गुप्तमेव हि । गतो देशान्तरं श्रेष्ठी,-ति प्रकटं क्रियते जने ॥ १४५ ॥ गीष्पतेरधिका धीस्ते, भ्रात्रेत्थमतिशंसिता । पिधाय श्रेष्ठिनी द्वारं, गर्चायां चिक्षिपेऽथ तम् ॥१४६।। त्रिभिर्विशेषकम् ।। श्रेष्ठिनी भोजयामास, भ्रातरं सादरं ततः । स्वयं चामुक्त वक्ति स्म, भ्रातराकर्णयाधुना ।। १४७॥ स्वप्नेव मयका रात्रि-शेषे पीयूषदीधितिः । पार्वणः प्रविशन्नास्ये, दीप्यमानो निरैक्ष(क्ष्य)त ॥१४८॥ तत्प्रभावादहं जाने, भावी पुत्रो ध्रुवं मम । तावद् व्यवहरन् हटे, तिष्ठ यावत्सुतो भवेत् ॥ १४९ ॥ प्रसद्य भ्रातरेषा मे, न कार्या निष्फलाऽर्थना । भ्रात्रोचे स्वसरुक्तं ते, विधास्यामि स्वमातृवत् ।। १५० ।। श्रेष्ठिनी स्वस्थचित्ताऽथ, विकचाम्बुजवत्रिका । शुभाकल्पा सखीगेहे, गत्वाऽगादीत्सखी प्रति ॥ १५१ ॥ वै‘प्यसे मया यद्ये, यौष्माकभगिनीपतेः । अपतीर्थगताः पोताः, श्रुता आसन् जनैः समैः ॥ १५२॥ वेलाकूलेऽधुना श्रेष्ठि,-पुण्यादेते समाययुः । श्रेष्ठी तत्संमुखं तेन, प्रमुदात्स्वयमीयिवान् ।। १५३ ।। युग्मम् । एवमुत्थापयन्ती सा, प्रवादं कालमत्यगात् । तद्धाता श्रेष्ठिवद् हट्टे, व्यवहारं सदादधत् ॥ १५४ ॥ १. पात्रा शंसिता भनी, हे भग्नि ! ते तव धीः बुद्धिः गीष्पतेः बृहस्पतेः सकाशात् । धीः बुद्धिः की० अधिका । पश्चात् श्रेष्ठिनी द्वारं पिधाय तं मृतं गर्गयां चिक्षिपे । २. पार्वणः= पूर्णिमाचन्द्रः । ३. हे भग्नि ! मया वर्धाप्यसे-अपतीर्थगता ये पोताः पूर्व श्रुता-आसन् । कस्य ? यौष्माकभग्नीपतेः । भवद्भिः कथं जनैः समस्तैः समयत यत् यस्मात् ते वेलाकूले समायाता | इत्यर्थः। ४. एवं उत्थापयन्ती विस्तारयन्ती सा प्रवादं, कोऽर्थः ! वार्ता सा श्रेष्ठिनी कालं अतिचक्राम, इति ज्ञेयम् ।
ACCARECRAC%%
For Private and Personal Use Only