SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARCHESAKARAOCABISA संपूर्ण समयेऽसूत, श्रेष्ठिनी तनयोत्तमम् । पूर्णिमेव सदा भानु (चन्द्र), जननेत्राभिनन्दिनम् ।। १५५ ॥ तत्कालजातमात्रोऽपि, बाल इत्थमचीकथत् । त्वरितं मातुलागच्छ, (सहर्ष एव) मेऽन्तिकम् ॥ १५६ ।। उद्यदाश्चर्यकल्लोल,-माल(ला)मानसनीरधिः । समीपस्था सखी गत्वा, न्यगदद्बालमातुलम् ॥ १५७ ॥ देहि वर्धापनां मे यत्, स्वसुस्ते तनयोऽजनि । वाग्मीव निगदनेष, त्वामाकारयतेऽञ्जसा ।। १५८ ॥ ददौ वर्धापनां सोऽस्यै, चारुरोमाञ्चकञ्चुकः । प्रमोदद्विगुणीभूत,--शरीरः स्मेरलोचनः ॥ १५९ ॥ विलसद्विस्मयानन्द,-रत्नमानसमन्दिरः । धर्मसारस्ततः शीघ्र,-मागमद्भगिनीगृहम् ।। १६० ॥ बाहुं विस्तार्य हस्तेन, वैकिताङ्गुलिधूनिना । आयातं मातुलं वीक्ष्या,-हयन्नूचे शिशुः स्वयम् ॥ १६१ ।। आगच्छ मातुल ! क्षेम,-कुशलं स्वागतं च ते । दाक्षिण्यं स्वस्वसुभद्र, नवमासान् त्वया कृतम् ॥ १६२ ॥ केतकृत्यं द्रुतं कृत्वा, प्रहेता त्वामहं गृहे । हर्ष एव त्वयाधेयो, विधेया नाधृतिः पुनः ॥ १६३ ॥ १. उद्यच्च तदाश्चर्य च, तदेव कल्लोलमाला यस्याम् , ईदृशी चित्तसमुद्ररूपा । २. विलसत् विस्मय आनन्दे(दः) एव रत्ने(नं) यत्र तद्विलसद्विस्मयानन्दं रत्नं, एवंविधं मानसमन्दिरं यस्य असौ० । ३. वक्रिताङ्गुलीन् धूनयन्ती(ति) इत्येवंशीला(लः) वक्रिताङ्गुलिधूनी (निः) तेन वक्रिताङ्गुलिधूनिना। ४. हे मातुल ! आगच्छ ते तव कुशलं वर्तते । ५. अहं प्रहेताप्रेषयिष्यामि त्वां, किं कृत्वा ! कृत्वा, कर्म-स्वां, की० कृतकृत्यम् । For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy