________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कदर्येण वयं भीम,-मग्रतोऽपि हि नारकम् । इयन्तं समयं याव,-दुःखमेतेन साहिताः ॥ १३६ ॥ अधुनैप स्वकान्तायां, रौद्रचित्तोऽतिवर्तते । तन्न नोत्र-शुभं स्थातु,-मित्यसौ मुमुचेऽसुमिः ॥ १३७ ॥ युग्मम् ॥ परिपूर्णा रसवतीं, विधाय श्रेष्ठिनी पुनः । 'विधृत्य विष्टरेऽदासीत् , पुरश्चतुष्किकाद्वयम् ॥ १३८ ॥ सैशर्करपयश्चारु,-गिराऽथ श्रेष्ठिनी जगौ । प्रसद्यागच्छ कान्ताशु, सवन्धुर्मुक्ष्व भोजनम् ।। १३९ ॥ अदत्तप्रतिवाच्यस्मि, रुषितत्वादभाषणम् । ज्ञात्वोचे श्रेष्ठिनी नाथ! रुषो नावसरोऽधुना ॥ १४ ॥ भूयोऽप्यालापितेऽमुष्मि,-नकृतप्रतिभाषिते । श्रेष्ठिनो मुखमुद्धाट्य, यावदेषा विलोकते ॥ १४१ ॥ तावद्विलोकयामास, निष्पेन्दवदनेक्षणम् । श्रेष्ठिनं कृपणपिता,-महं कीनाशसअगम् ॥ १४२ ।। युग्मम् ।। स्वपतेर्नामशेषत्व, कार्पण्यं चातिदारुणम् । निगद्य श्रेष्ठिनी भ्रात्रे, पुनरित्थमभाषत ॥ १४३ ॥
अपुत्रस्य चतस्रोऽस्य, विद्यन्ते धनकोटयः । यथा राजकुले नैता, यान्ति यत्नं तथा दधे ॥१४४ ॥ १. साहिताः, कर्त्तारो-वयं, प्राणाः, कर्म-भीमं रौद्रं नारकदुःखं । कथं ! इयन्तं समयं यावत् । कथं अग्रतः केन ! एतेन कदयेण । २. नोऽस्माकं न अत्र शुभं स्थातुम् । ३. प्राणैः । ४. विधृत्य, कर्म-विष्टरे आसनेऽदासीत् ददौ । कम-सा, कर्म-चतुष्किाकाद्वयम् । ५. सशर्करं यत् पयस्तद्वचार्वीगीः तया । ६. भुक्ष्व त्वं, की० सबन्धुः बन्धुसहितः, कर्म=भोजनम् । ७. रुषः कोपस्य अदत्तप्रतिवचना । ८. अमुष्मिन श्रेष्ठिनि । की० भूयोऽपि भाषिते । की० अकृतप्रतिभाषणे । ९. निष्पन्दे=निश्चले वदनेक्षणे यस्य तत् । १०. यमगृहगतम् । ११. नामशेषत्वं, कोऽर्थः ! मृतत्वमिति ज्ञेयम् ।
For Private and Personal Use Only