________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
७७. आर्यायां यः श्वश्वाम् । १. ७७. । आर्याशब्दे श्वश्वां वाच्यायां यस्यात ऊर्भवति ।
अज्जू.। ' श्वश्वाम् ' इति किम् ? भज्जा.॥ ७८. एग्राह्ये । १. ७८. । प्राह्यशब्दे आदेरात एद् भवति । गेसं. ॥ ७९. द्वारे वा. । १. ७९. । द्वारशब्दे आत एद् वा भवति । देरं. ।
पले- दुआरं, दारं, पारं. । कथं नेइओ, नारइओ. ? नैरयिकनारकिकशब्दयोर्भविष्यति।
आर्षे अन्यत्रापि- पच्छे कम्म. असहेज देवा सुरी. ॥ ८०. पारापते रो वा. । १.८० । पारापतशब्दे रस्थस्यात एद् वा
भवति । पारेवओ. पारावओ. ॥ ८१. मात्रटि वा । १. ८१. । मात्रट्प्रत्यये आत एद् वा भवति । एचिअमेचं.
एत्तिअमत्तं. । बहुलाधिकात्क्वचिन्मात्रशब्देपि- भोअण-मेत्तं. ॥ ८२. उदोद्वा । १. ८२. । आर्द्रशब्दे आदेरात उद् ओच वा भवतः।
उलं. ओलं. [ बाह-सलिल-पवाहेण उल्लेइ. ] पक्षे- अलं. अई. ॥ ८३. ओदाल्यां पङ्क्तौ । १. ८३. । आलीशब्दे पङ्क्तिवाचिनि आत ओत्वं भवति ।
ओली.. 'पक्तौ ' इति किम् ? आली. [सखी;] ॥ ८४. ह्रस्वः संयोगे । १. ८४. । दीर्घस्य यथादर्शनं संयोगे परे इस्वो
भवति । आत्- आम्रम् ; अम्बं. | विरहामिः; विरहग्गी.
ताम्रम् , तम्बं. | आस्यम् ; . अस्सं. । इत्- मुनीन्द्रः; मुणिन्दो. | तीर्थम् ;. . . तित्यं । उत्- गुरूलापा; गुरुल्लावा. | चूर्णः चुण्णो . ।
For Private and Personal Use Only