SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०४) ५६८. क्लीबे स्यमेदमिणमो च । ३. ७९ । नपुंसकलिङ्गे वर्त मानस्येदमः स्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्य मादेशा भवन्ति । इदं. इणमो इणं धणं चिट्ठा पेच्छ वा ॥ ५६९. किमः किं । ३. ८० । किमः क्लिवे वर्तमानस्य स्यम्भ्यां सह किं भवति । किं कुलं तुह. किं किं ते पडिहाइ ॥ ५७० वेदं तदेतदो साम्भ्यां से सिमो । ३. ८१ । इदम् तद् एतद् इत्यतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः । इदम्-से सीलम् से गुणा, अस्य शीलं गुणा वा इत्यर्थः. सिं उच्छाहो, एषाम् उत्साह इत्यर्थः. त- से शीलं, तस्य तस्या वा इत्यर्थः, सिं गुणा, तेषां तासां वा इत्यर्थः. एतद्-से अहिअं, एतस्य अहितम् इत्यर्थः. सिं गुणा, सिं शीलं, एतेषां गुणाः शीलं वा इत्यर्थः पक्ष- इमस्स. इमेसि. इमाण. तस्स. तेसिं. ताण. एअस्स. एएसि. एआण. इदं तदोरामापि से आदेशं कश्चिदिच्छति॥ ५७१. वैतदो इसेस्तोत्ताहे । ३. ८२ । एतदः परस्य स्सेः स्थाने तो ताहे इत्येतावादेशौ वा भवतः । एत्तो. एत्ताहे. पक्षे- एआओ. एआउ. एमाहि. एमा हिन्तो. एभा ॥ ५७२. त्थे च तस्य लुकू । ३. ८३। एतदस्त्थे परे चकाराव तो .ताहे इत्येतयोश्च परयोस्तस्य लुम् भवति । एत्थ. एतो एत्ताहे ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy